________________
३३४
मल्लिनाथमहाकाव्येमनःपर्यायविज्ञानां धीज्ञातजगतामपि । चतुर्दशशतान्यासन वादिनां कीर्तिशालिनाम् ॥ ५५१ ॥ श्रावकाणां लक्षमेकं सत्र्यऽशीतिसहस्रयुक् । युता सहस्रसप्तत्या श्राविकाणां त्रिलक्ष्यभूत् ॥ ५५२ ॥ ज्ञात्वा निर्वाणकल्याणमासनं त्रिजगत्पतिः। संक्रमं सिद्धिसौधस्य समेतगिरिमभ्यगात् ॥ ५५३ ॥ संवत्सरशताद् न्यूनं पञ्चपञ्चाशतं प्रभोः। समाः सहस्रान् विहतुः परिवारो ह्यसावभूत् । ५५४ ॥ तत्रारुह्य पञ्चशतमहामुनिपरिच्छदः।। मासमेकं च स न्यासं कृतवान् परमेश्वरः ॥ ५५५ ॥ फाल्गुनश्वेतद्वादश्यामश्वयुजि निशाकरे । त्रैलोक्यवन्द्यपादाब्जो भव्यलोकप्रबोधकृत् ॥ ५५६ ॥ वाग्योगं बादरं सम्यक् मनोयोगं च बादरम् । रुरोध द्वितयं स्वामी सारथिधुर्ययुग्मवत् ॥ ५५७ ॥ बादरं काययोगं च सूक्ष्मकायनिरोधनात् । अरौत्सीद् योगिवन्नाथः श्वासप्रश्वासवारणात् ॥ ५५८ ॥ अथ सूक्ष्मानयोगस्थः सूक्ष्मवाचित्तरोधयोः । रोधं स्वामी वितन्वानः सूक्ष्मध्यानरतोऽभवत् ॥ ५५९ ॥ अथोच्छिन्नक्रियं नाम तुर्य ध्यानमशिश्रियत् । पञ्चहस्वाक्षरोच्चारप्रमाणं परमेश्वरः ॥ ५६० ॥ क्षीणार्थो विगतकर्मा सिद्धानन्तचतुष्टयः । सर्वक्लेशविनिर्मुक्तः केवलज्ञानदर्शनः ॥ ५६१ ॥ ऊर्ध्वगामी जगन्नाथो लेपाभावादलाबुवत् । स्वभावादृजुमार्गेण लोकाग्रमुपजग्मिवान् ॥ ५६२ ॥
(युग्गम् ) विनष्टशर्मणां शर्म नारकाणामपि क्षणम् । प्रभोर्निवाणकालेऽस्मिन् न पूर्व समजायत । ५६३ ॥