________________
अष्टमः सर्गः ।
३३३ शर्कराकल्पया नित्यं भास्वद्भावनयाऽनया ॥ ५३८ ॥ वशीचकार नित्यं स दुर्द्धराणीन्द्रियाण्यपि । अनल्पेतरसङ्कल्पविकल्पपरिहारतः ॥५३९॥ कषायाः शमितास्तेन दुर्जया अपि वैरिवत् । क्षमाप्रभृतिनिःशेषप्रतिपक्षपरिग्रहात् ॥५४०॥ एवं विशुद्धभावस्य कुलध्वजमहामुनेः । उत्पेदे केवलज्ञानं क्रमाद् निर्वाणमाप च ॥५४१॥ इत्युक्त्वाऽऽह जगन्नाथो यशश्चन्द्रमहीपते ! । पाल्यः कुलध्वजेनेव नियमोऽन्यवधूजने ॥५४२॥ यतःदुर्गाद्या हि मनोवृत्तिः स्त्रीणामुत्कलिकोत्तरा। किं केनाऽपि मिता कापि समुद्रजलपद्धतिः ? ॥ ५४३ ॥ मधुरा कोमलाङ्गी वा परस्त्री दुःखदायिनी । किं हिताय भवेत् स्पृष्टा कालकूटस्य कन्दली? ॥ ५४४ ।। श्रुत्वेति स्वामिनः प्रोक्तं यशश्चन्द्रः क्षमापतिः । पञ्चभी राजपुत्राणां सहप्त्रैर्ऋतमग्रहीत् ॥ ५४५ ॥ एवं श्रीमल्लिनाथस्य पृथ्वीं विहरतः सतः । गणभृतोऽष्टाविंशतिरभूवन भिषगादयः ॥ ५४६ ॥ चत्वारिंशत्सहस्राणि क्षमिणां तत्त्वधारिणाम् । साध्वीनां पञ्चपञ्चाशत्सहस्राणि तपोजुषाम् ॥ ५४७ ॥ अधिकानि तु षषष्टेः षद्शतानि महात्मनाम् । विज्ञातसर्वतत्त्वानां द्विघ्नसप्तकपूर्विणाम् ।। ५४८ ॥ द्वाविंशतिशतान्यऽस्याऽवधिज्ञानविराजिनाम् । केवलज्ञानिनां सङ्ख्या पूर्वोदिता यथास्थिता ॥ ५४९ ॥ एकोनत्रिंशच्छतानि वैक्रियलब्धिकारिणाम् । सप्तदशशतान्यस्य सा नि शमभृन्ति च ।। ५५० ॥
१ द्विगुणितसप्तकपूर्विणामित्याशयः । ।