________________
मल्लिनाथमहाकाव्ये
प्रसादिता महीपाला न भवन्ति निरर्थकाः ॥ ५२६ ॥ कालक्रमेण पञ्चत्वमापन्ने शङ्खभूभृति । पितुः पदमलञ्चक्रे नीतिविज्ञः कुलध्वजः ।। ५२७ ॥ पट्टदेवी पदे चक्रे राजा भवनमञ्जरीम् ।
अभुङ्क विषयान् वाञ्छानुरूपांश्च तया सह ॥ ५२८ ॥ अन्यदा तत्पुराssयात केवलज्ञानिसन्निधौ । श्रुत्वा दुष्पारसंसारतारिणीं धर्मदेशनाम् ।। ५२९ ॥ प्रबुद्धः कान्तया साकं राज्ये न्यस्य तनूद्भवम् । कुलध्वजमहीपालः प्रव्रज्यां विधिनाऽऽददे ।। ५३० ॥ ( युग्मम् )
ततः प्रभृति संसारं कारागारमिवात्मनः | भावयन् भावनां सम्यक् भावयामास संयमी ।। ५३१ ॥
३३२
यतः
लोला लक्ष्मीः सुखं स्वल्पं परिणामि शरीरकम् । निरुद्यमः किमत्राहमद्य श्वो वा प्रयाणकम् ? ।। ५३२ ॥ पुनर्जन्म पुनर्मृत्युः पुनः क्लेशपरम्परा | अरघट्टघटीन्यायो न कदाचिदनीदृशः || ५३३ ॥ मनस्तुरगवद् भ्राम्यत् विशृङ्खलमहर्निशम् । स वशं स्थापयामास विशिष्टज्ञानवल्गया ।। ५३४ ॥ आनिनाय मुनिः शान्तिं ज्वरं मनसिजोद्भवम् । सिद्धान्तार्थस्य चूर्णेन न कुर्वन् गुरुलङ्घनम् ।। ५३५ ॥ कुवासनाघन श्लेष्मा पातितस्तेन लीलया । निरन्तरं शुभध्याननस्यग्रहणयोगतः || ५३६ ॥ मायावतं तमः पित्तं मोहश्लेष्माणमुच्चकैः । ज्ञानदर्शनचारित्रौषधौघैरजयन्मुनिः || ५३७ || जगाम मोहनीयाख्या भ्रमिस्तस्य महात्मनः ।
१ नासिकाया हितं नस्यम्, शुभध्यानमेव नस्यमिति समन्वितिः ।
-