________________
३३१
अष्टमः सर्गः ।
वरं वृणु महाभाग ! तुष्टाऽहं नियमश्रुतेः । अमोघं दर्शनं देवं विद्युदिव दृष्टिकृत् ।। ५१३ ॥ सोsध्याsssयत् प्रियया साकं यथा भोगो भवेद् मम । तथा कुरु पयोदेवि ! परोपकृतिलालसे ! ।। ५१४ ॥ समुत्पाट्य करेणाऽथ तत्पत्नीभवनाङ्गणे । देव्याऽसौ मुमुचे वेगाद् लाजाञ्जलिरिवापरः ।। ५१५ ।। भग्नो दृष्टः कुमारेण वाजी दारुविनिर्मितः । प्रिया च रुदती शोकशङ्कुमूढविचेतना ।। ५१६ ॥ देव्यूचे वत्स ! तेsभीष्टं साम्प्रतं करवाणि किम् ? | सोऽप्याssख्यद् वाजिनं सज्जं कुरु पूज्ये ! यशस्विनि ! ५१७ तत्क्षणं प्रगुणीचक्रे देवशक्त्या तया हयः । अचिन्त्यं किल देवीनां शक्तिविस्फूर्त्तिवैभवम् ।। ५१८ ।। देव्यगाद् मन्दिरं स्वीयं कुमारोऽपि तुरङ्गमम् । अध्यासामास वेगेन प्रियया सह तत्क्षणम् ।। ५१९ ॥ इतश्च शङ्खभूपेन सूत्रभृद् विधृतो हठात् । पूर्णेषु षट्सु मासेषु नागते नन्दने सति ।। ५२० ॥ नृपः प्रगुणयाश्चक्रे सूत्रधारकृते चिताम् । भूभुजो यमवद् रुष्टास्तुष्टा धनदवद् यतः ।। ५२१ ॥ रसद्विरसवादित्रमानीतः सचिवान्तिकम् । esयमानो जनैः पौरैः पूर्णवाष्पविलोचनः ।। ५२२ ॥ यावत् क्षिपन्ति तत्राsयौ हव्यवत् सूत्रभृद्वरम् । तावद् दृष्टो महीपालनन्दनो व्योनि सप्रियः ॥ ५२३ ॥ समुत्तीर्णस्ततो व्योम्नस्तुरगाद् नृपनन्दनः । पौरैरानन्दितो राजा पुत्रागमनशंसिभिः ॥ ५२४ ॥ प्रवेशितो महीपेन सूनुः सूत्रभृता सह । रसत्सुस्वरवादित्रं महोत्सवपुरस्सरम् ।। ५२५ ॥ देशानथ ददौ राजा लोहसूत्रकृतोर्द्वयोः ।