________________
३३०
मल्लिनाथमहाकाव्ये
इतश्च व्योमयानेन काचिद् विद्याधरप्रिया । अगादप्सरसां वृन्दं जयन्ती रूपवैभवात् ॥ ५०० ॥ कासि भामिनि ! कुत्रत्या कस्मादत्र समागता । तत्सर्वं श्रवणद्वन्द्वप्रमोदाय निवेद्यताम् ॥ ५०१॥ महाभाग ! शृणु श्रौत्रसुधारसनिषेचनम् । कथारसं महामीतिमेघपौरस्त्यमारुतम् ॥ ५०२ ॥ वैताढ्येऽभूद् मणिनाम्ना विद्याधरशिरोमणिः । तस्याऽहं पट्टदेव्यस्मि नाम्ना कनकलोचना ॥ ५०३ ॥ सोऽद्य मे वल्लभो हन्त ! वैरिणा विधृतो हठात् । । त्वद्रूपान्तरमापन्नः स त्वं दृष्टोऽसि धीनिधे ! ॥ ५०४ ॥ कामबाणेन देहस्य भिद्यमानस्य मेऽधुना। तव सङ्गमसन्नाहं विना न शरणं परम् ॥ ५०५॥ ऊचे कुलध्वजो मातः! परस्त्रीनियमो मम । भङ्गं नैतस्य कुर्वेऽहं सुसिक्तस्येव शाखिनः ॥ ५०६ ॥ श्रुत्वेति वचनं तस्य विद्याभृत्पाणवल्लभा। तं प्रति प्राहिणोत् पुष्पमभिमन्त्र्याऽथ विद्यया ॥ ५०७ ॥ तत्मभावान्मुमूर्योच्चैर्विषादिव नृपाङ्गजः। अज्ञायत निर्मनस्कोऽसंज्ञिपश्चेन्द्रियोपमः ॥ ५०८ ॥ काष्ठवत्तं समुद्धृत्य चिक्षिपे वारिधौ तया। निर्दयत्वमहो ! स्त्रीणां घिग् धिग् प्रेमातिचञ्चलम् ॥५०९॥ जलदेव्या पतन् दृष्टस्तेजःपुञ्ज इवाम्बरात् । गृहीतः पाणिपद्माभ्यां खामिदत्तप्रसादवत् ॥ ५१० ॥ तत्प्रभावाद् ननाशास्त्रपुष्पविद्या नृपात्मजात् ।। वस्थीभूतः क्षणादेष समुन्मीलितलोचनः ॥ ५११॥ तया पृष्टः कुमारोऽसौ तद्वृत्तान्तमचीकथत् । परकीयाङ्गनाभोगनियमेन पुरस्सरम् ॥ ५१२ ॥
१ स इति कर्माऽध्याहारः।