________________
अष्टमः सर्गः ।
वारां निधेर्महादुर्गमन्तरीपमवाप सः ॥ ४८६ ॥ यस्यान्ते रेजिरे नीलास्तमालवनराशयः । अवतीर्णा इवाम्भांसि पातुमम्भोदराजयः ॥ ४८७ ॥ विभान्ति यत्र शीतांशुशुभ्रा डिण्डीरराशयः । हास्योद्वारा इवाम्भोधेः स्रवन्तीनां समागमे ॥ ४८८ ॥ अथोत्तीर्य महीपालपुत्रः सुष्वाप निर्भयः । मृदुपल्लवपल्यङ्के मनसीव मनोभवः || ४८९ ॥ क्षुधाक्षामं प्रियं वीक्ष्य मोदकाssनयनाशया । अध्यासामास दार्वश्वं मूर्त्तेवाऽऽकाशदेवता ।। ४९० ।। गत्वा वातायने मुक्तो तयाऽसौ नृपकन्यया । प्राविशत् सा निजागारं सम्पूर्ण मोदकादिभिः ॥ ४९१ ॥ इतच वात्यया कामं पातितस्तुरगः क्षितौ । अभाङ्गीत् तटिनीनाथमध्यस्खलितपोतवत् ।। ४९२ ॥ यावदागाद् महीपालकन्यका मोदकान्विता । तावदैक्षत दार्वश्वस्तया भग्नो भुवस्तले ।। ४९३ ॥ प्रतिकूलमहो ! दैवं सर्वतो विपदावहम् । हहा ! पुरातनाssचीर्ण कम्मोदग्रं ममाधुना ॥ ४९४ ॥ अनुकूलो विधिः पाति पितेव व्यसनेऽप्यलम् । प्रतिकूलः पुनर्न्यायमार्गनिष्ठं जुगुप्सते ॥ ४९५ ॥ वारिधी गमनं पत्युर्भङ्गो मे दारुवाजिनः । सर्वे कष्टावहं जातं मम भाग्यविपर्ययात् ।। ४९६ ॥ दृष्टे प्रिये ममावश्यं भोक्तव्यं नान्यथा खलु । एवं नियममाधत्त प्रेमपादपदोहदम् ॥ ४९७ ॥ इतश्च भूपतेः सूनुर्निद्रया मुमुचे तदा ।
न चाsद्राक्षीत् प्रियां प्रेमस्वर्णस्वर्णाद्रिचूलिकाम् ॥ ४९८ ॥ किं श्री भ्रान्त्या समाहूता पयसां निधिना प्रिया ।
उत श्रीपतिना जहे चिन्तयामासिवानिति ? ।। ४९९ ।।
४२
३२९