________________
३२८
मल्लिनाथमहाकाव्येतलाध्यक्षनरैः सार्द्ध भ्रयन्ती भववागुरा । द्यूतस्थानस्थितं भूपनन्दनं वीक्षते स्म सा ॥ ४७३ ॥ सिन्दूरारुणपादाभ्यां तयाऽसावुपलक्षितः । तदादेशात्तलाध्यक्षपुरुषैः स धृतो हठात् ॥ ४७४ ॥ तत्प्राप्तिश्रवणेनाऽऽशु मरुतेव मुहुर्मुहुः । दिदीपे भूपतेः कोपो हव्यवाडिव तत्क्षणम् ॥ ४७५ ॥ पण्ढवद् दर्शनं माऽस्य भूयात् तत्कर्मकारिणः । इत्युक्त्वा दीयतां वायोरित्यादेशं नृपो ददौ ॥ ४७६ ॥ अथादेशं समासाद्य वध्यभूम्युपरि द्रुतम् । तलाधिपनरैः क्रूरैगृहीतो नृपनन्दनः ॥ ४७७ ॥ जनास्तद्रूपमालोक्य विवदन्ते परस्परम् । यत्कृतोऽयं वरः पुच्या व्यलीकं तदिदं नु किम् ? ॥४७८॥ पीयूषगुणसारस्य वियोगेऽस्य कलाभृतः । क्षयं राकानिशेवाऽऽशु राजपुत्री प्रपत्स्यते ॥ ४७९ ॥ पुत्र्याश्चेदीदृशं चक्रे भूभुजा किं प्रकाशितम् ? । गृहे दुश्चरितं यस्माद् दक्षा रक्षन्ति सर्वथा ॥ ४८० ॥ इत्यादिलोकसंलापान शृण्वानो नृपनन्दनः । मालिकागारसामीप्यमगाद् राजभटातः॥४८१ ॥ ममान्वये समायातां मालिकागारवासिनीम् । कुलदेवीं नमश्चक्रे युष्मत्पादप्रसादतः ॥ ४८२ ॥ आमेत्युक्ते भटौघेन प्रविश्य मालिकालयम् । शरीरं रसवेदीव पुनः सज्जं हयं व्यधात् ।। ४८३ ॥ पश्यतां राजलोकानां कामं विस्मेरचक्षुषाम् । उत्पपात पतत्रीव हयः काष्ठविनिर्मितः ॥ ४८४ ॥ गत्वा वातायनं वेगात् कुर्मायाः कृत्रिमो हयः । उत्ततार चिरं भ्रान्तिश्रान्ताङ्ग इव तत्क्षणम् ॥४८५॥ तत्राधिरोह्यतां पत्नी नवोढामिव हर्षितः ।