________________
मः सर्गः ।
३२७
अकाण्डे निजकान्ताया देवि ! वैधव्यमिच्छता ।। ४६० ॥ त्वत्प्रसादान्न केनापि मदाज्ञाखण्डनं कृतम् । परं तु खण्डनं जातं कुमार्या वचनातिगम् ।। ४६१ ॥ प्राणनाथ ! समागत्य रजन्यां कन्यकां तव । अदत्तामप्यलं भुङ्क्ते वीरः कोऽपि भयोज्झितः ||४६२॥ येनेदं मद्गृहे देवि ! चेष्टितं दुष्टचेतसा । तमाशु दक्षिणेशस्य करिष्ये प्राभृतोपमम् ।। ४६३ ॥ कोपाटोपोत्कट स्वेद विन्दु भृकुटीभीषणः । उपविष्टः सभां राजा तदन्वेषणलालसः || ४६४ ॥ विवेद पार्थिवाकूतं वारस्त्री भववागुरा । वेश्यानां हि स्वभावोऽयं परचित्तोपलक्षणम् ।। ४६५ ॥ तया निर्बंन्धतः पृष्टो भूपतिश्चिन्तयाऽऽकुलः । पुत्र्या वृत्तान्तमाचख्य। वर्षडक्षीणमञ्जसा ।। ४६६ ॥ तमन्यायकृतं बध्वा त्वत्पादान्तमुपानये । अगादिति प्रतिज्ञाय स्वगृहं भववागुरा ।। ४६७ ॥ संध्यायां गणिका बुद्ध्या नानोपायविशारदा । सतैलनवसिन्दूरैः कन्यागारमलेपयत् ।। ४६८ ।। तुरङ्गमाऽधिरूढोऽसौ त्रियामायां कुलध्वजः । अगाद् वातायनं तस्याः सान्द्र सिन्दूरपङ्किलम् ||४६७|| तया साकं चतुर्यामीमतिवाह्य घटीमिव । गतवान् मालिकागारमुदियायाऽथ भास्करः ॥ ४७० ॥ आयौ गणिका प्रातः कन्याया भवनाङ्गणम् । पादयोः प्रतिविम्बानि पद्मानीव व्यलोकयत् ॥ ४७१ ॥ प्रतिबिम्बानुमानेन तयाऽज्ञायि महीधरः । काव्येव कर्भाव आचारेण कुलं यथा ।। ४७२ ॥
१ यमस्येत्यर्थः ।
२ अविद्यमानानि षडक्षीणि यस्मिन् तं गुप्तमिति यावत् ।
"