________________
३२६
माल्लिनाथमहाकाव्येतत्तल्पस्य चतुर्भागे ताम्बूलं त्वर्धचर्वितम् । क्षिप्त्वा तेनैव मार्गेण पुनः स्वगृहमागमत् ॥४४७॥ प्रबुद्धा वीक्ष्य ताम्बूलं तत्र सर्वत्र विस्तृतम् । सा दध्याविति कोऽत्राऽऽगात् खेचरत्रिदशोऽथवा ?॥४४८॥ अनया चिन्तया सा तद् दिनं वर्षमिवाऽऽनयत् । अलीकनिद्रया रात्रौ सुष्वाप नृपकन्यका ॥४४९॥ . द्वितीयेऽह्नि निशीथेऽथ दावश्वमधिरुह्य च । तेनैव विधिना तत्र समायातः कुलध्वजः ॥४५०॥ क्षिप्त्वा सर्वत्र ताम्बूलमचालीद् यावदुच्चकैः । तावद् चेलाञ्चले बाढं हस्ताभ्यां विधृतस्तया ॥४५१॥ कुतस्त्योऽसि धियां धाम! चलितोऽसि क सम्प्रति ? । कुमार्येति कुमारोऽसौ पृष्ट एवमवोचत ॥४५२॥ भूमीचरोऽपि जज्ञेऽहं खेचरः काष्ठवाजिना । इत्युक्ते तेन साऽवादीत् पूर्णो मम मनोरथः ॥४५३॥ . प्रदीपं साक्षिणं कृत्वा पुरोहितमिवाऽसकौ । उपायंस्त विवाहेन गान्धर्वेण कुमारिकाम् ॥४५४॥ ततो भवनमञ्जर्या बुभुजे विषयानसौ । अदृश्यो वायुवत् कन्यान्तःपुररक्षकैनरः ॥४५५।। दधुर्लावण्यपुण्यानि तदङ्गानि श्रियं पराम् । मुक्ताफलमनोज्ञानि तटानीव पयोनिधेः ॥४५६॥ अङ्गानां वृद्धिमालोक्य मेने दक्षः सखीजनः । अकालफलसंवित्तिभूरुहामिव भीतिदाम् ॥४५७॥ तद् देव्या जयमालायाः स्थिताया विजने सखी । कथयामास निःशेषं नीचीकृतमुखाम्बुजा ॥ ४५८ ॥ दुःखाधीतगलद्वाक्यविद्यामिव नभश्वरीम् ।
अपश्यत् पृथिवीनाथो जयमालां रहःस्थिताम् ॥ ४५९ ॥ :: अनात्मज्ञेन केनेह तवाज्ञाखण्डनं कृतम् ।