________________
- अष्टमः सर्गः।
३२५ लास्यं प्रचक्रमे कर्तुं सखीभिः परिवारिता ॥४३३॥ नमस्कृत्याऽथ देवेन्द्रं स्त्रीराज्यमिव तन्वती। सखीभिः सह संपाप कन्याऽन्तःपुरमुत्तमम् ॥४३४॥ कोणानिर्गत्य रात्रौ स तद्रूपेण विमोहितः। पप्रच्छ पुरुषं कश्चित् केयं बाला सुलोचना? ॥४३५॥ आख्यत् स श्रूयतां देव! श्रोत्रापेयः कथारसः । अस्य श्रवणमात्रेण संपद्यन्ते मुदोऽङ्गिनाम् ॥४३६॥ इदं रत्नपुरं नाम्ना वरपाकारमण्डितम् । अस्ति श्रीसुव्रतस्वामिश्रावको विजयी नृपः ॥४३७।। विस्तीर्णचारुसौवर्णतुङ्गतोरणसुन्दरम् । तेनेदं भूभुजाऽकारि चैत्यं कुलगृहं श्रियः ॥४३८॥ तस्येयं कन्यका देव ! जयमालासमुद्भवा । सर्वलक्षणसम्पूर्णा नाम्ना भुवनमञ्जरी ॥४३९॥ विलोक्य यौवनोद्याने कुमारी करिणीमिव । विजयी तद्विवाहार्थमैक्षिष्ट नृपकुञ्जरम् ॥४४०॥ कुमारान्वेषणं श्रुत्वा कुमारी निजचेतसि । अथेत्थं चिन्तयामास विवाहो मे समागतः ॥४४१॥ महीचरोऽपि यः कश्चित् स्वशक्त्या खचरो भवेत् । स भविष्यति मे भाऽन्यथा वह्निवेरो मम ॥४४२॥ गूढाभिप्रायमात्मीयं प्रियसख्यै न्यवेदयत् । सा सम्यक् कथयामास विजने पृथिवीशितुः ॥४४३॥ विज्ञाय निश्चयं तस्याः खपुष्पमिव दुर्लभम् । तूष्णींशालो महीपालोऽभवद् चिन्ताभिरुच्चकैः ॥४४४॥ इति व्याहृत्य स पुमान् ययौ राजनिकेतनम् । कुलध्वजोऽपि संप्राप प्रातिहारिकमन्दिरम् ॥४४५॥ तस्याऽथ कोणके कृत्वा सजं दारुमयं हयम् । कीलिकायाः प्रयोगेणाऽऽगच्छत् तद्वासमन्दिरम् ॥४४६॥