________________
३२४
माल्लिनाथमहाकाव्ये
काष्ठत्रातं तुरङ्गस्य भाररूपं चकार सः॥४२०॥ विधायोच्छीर्षके काष्ठचक्रवालं कुलध्वजः । सुष्वाप श्रमखिन्नाङ्गः सहकारतरोरधः ॥४२१।। इतश्च नभसो मध्यं भेजे दिवसनायकः । कीलितेव स्थिरा वृक्षच्छाया तस्याऽभवत्तराम् ॥४२२।। इतश्चारामिकस्तस्मिन्नागात् पुष्पजिघृक्षया । स्थिरच्छायस्तरुदृष्टो मध्याह्वेऽपि मनोहरः ॥४२३॥ अल्पसुप्तनरस्याऽयं प्रभावश्चिन्तयनिति । अस्पाक्षीत् तत्पदाङ्गुष्ठं जजागाराऽथ भूपजः॥४२४॥ यूयं भवथ सत्पुण्या मन्दिरेऽतिथयोऽद्य मे । एवं विज्ञपयामास मालिको भक्तिमालिकः ॥४२५॥ आमेत्युक्तं कुमारेण प्रार्थनाभङ्गभीरुणा। गेहे सो भोजितो नीत्वा तेन हर्षपुरस्सरम् ॥४२६।। कोणे गृहस्य विन्यस्य तौरङ्ग काष्ठसश्चयम् । अथाऽचालीत् पुरो मध्यं वीक्षितुं दिवसाऽत्यये॥४२७॥ स्वर्णपश्चालिकाकीर्ण रूप्यतोरणभासुरम् । सङ्केतमन्दिरं श्रीणां नेत्रपान्थप्रपोपमम् ॥४२८॥ प्रमोदनृपतेः पर्षद् मोक्षाध्वप्रान्तरद्रुमम् । निधानमिव धर्मस्य दृष्टवान् जिनमन्दिरम् ॥४२९॥
(युग्मम् ) श्रीमन्तं सुव्रतं देवं दृष्ट्वा तत्र कुलध्वजः । प्रणनाम नमन्मौलिकिणावलिपचेलिमः ॥४३०॥ इतश्च वेत्रभृत् कश्चित् समागत्य भृशं जनान् । कोणस्थानपि प्रत्येकं वेगतो निरवासयत् ॥४३१॥ किमेतदिति संभ्रान्तः कुमारस्तस्य कोणके । लीयते स्म यथा जीवः परमात्मनि योगिनः ॥४३२॥ अद्वितीयवपुः काचिदेत्य कन्या जिनार्चनात् ।