________________
अष्टमः सर्गः।
३२३
मुक्ताः स गलरन्ध्रेण गिलित्वाऽऽमिषवद् भृशम् । निरवर्तत पाथोधेः कार्मुकाद् मुक्तकाण्डवत् ॥४०७॥ आयाते स्वपुरं तस्मिन्नाऽऽकृष्टा कीलिका क्षणात् । निपेतुौक्तिकश्रेण्यस्तन्मध्यात् सेवधेरिव ॥४०८॥ ततः कौतुकितो राजा बभाषे लोहकारिणम् । गतप्रत्यागतं चक्रे कथमेष सुलक्षणम् ? ॥४०९॥ सोपाख्यद् देव ! सिद्धाख्या राधा देवी मया ततः ।। अर्पिते कीलिके तया युयानार्थमिमे शुभे ॥४१०॥ कीलिकायोगतो राजन् ! याम्यहं गगनाङ्गणे । अचिन्त्या देवताशक्तिःसाधयति न किं नृणाम्॥४११॥ सूत्रधारोऽथ भूपालादेशाद् दारुमयं हयम् । उच्चैरुच्चैःश्रवस्तुल्यं कृत्वाऽदर्शयदञ्जसा ॥४१२॥ देवाऽस्मिन् तुरगे यूयं कुमारो वा कुलध्वजः। आरोहत्वपरो नैव सोऽवादीदिति कोमलम् ॥४१३॥ अथोचे भूपजो देव ! युष्मदादेशतोऽधुना। कृत्रिमाश्वं समारुह्य वीक्ष्ये विश्वम्भरातलम् ॥४१४॥ आमेत्युक्ते नरेन्द्रेण सूत्रकृत् कीलिकाद्वयीम् । गमनाऽऽगमनायाऽऽशु कुमारस्य समर्पयत् ॥४१५॥ तस्य पृष्ठेऽथ विन्यस्य कीलिकां नृपनन्दनः। अलश्चकार दावश्वं नमस्कृत्य नरेश्वरम् ॥४१६॥ पश्यतां सर्वलोकानां स्मयविस्मेरचक्षुषाम् । उत्पपात नभोमार्ग वाजी दारुविनिर्मितः ॥४१७॥ स्वर्गे किमगमत् किं वा सिद्धाऽदृश्याञ्जनोऽभवत् । अदृश्यः सोऽपि दावश्वो लोकैरेवं वितर्कितः ॥४१८॥ पुर्याः कस्याश्चिदुद्याने भ्रान्त्वा वाजी समस्थितः । कृष्टायां कीलिकायां च राजपुत्रेण तत्क्षणम् ।।४१९॥ कुलध्वजकुमारोऽथ पृथक् पृथक् विधाय सः।