________________
३२२ मल्लिनाथमहाकाव्ये
उत्प्लुत्य व्योमयानेन स याति मकराकरम् ॥२९३॥ गिलित्वा गलरन्ध्रेण तन्मध्यान् मौक्तिकावलीः । पुनरायाति संस्थानं स्वकीयं लोहजस्तिमिः ॥३९४॥ मुखमर्कटिकां दत्वा श्रुत्वेति तद्रिः पुरः।
आह स रथकृत्पनी तालिकावादनान्वितम् ॥३९५॥ विज्ञानेनाऽमुना लोके न हि किश्चन लभ्यते । मन्ये तदेव विज्ञानं यत्पत्यौ मे विजृम्भते ॥३९६॥ अथोचे भूपतेः पुत्रः किं ते पत्युमनोहरम् । विज्ञानं विद्यते ब्रूहि त्वमशेषं सुलोचने !? ॥३९७॥ अत्रास्ति नगरे रम्ये मत्पतिः सूत्रभृद्वरः । कन्दर्पो नाम रूपेण कन्दर्प इव मूर्त्तिमान् ॥३९८॥ स चेत् काष्ठमयं चारु निर्मिमीते तुरङ्गमम् । षण्मासान् यावदाकाशे स भ्राम्यति सपौरुषम्॥३९९॥ श्रुत्वेति वचनं तस्या राजपुत्रः सकौतुकः। ताभ्यां सह सभां राज्ञो जगाम सपरिच्छदः ॥४००॥ वृत्तान्तः कथितस्तेन कुमारेण नृपाग्रतः। ततो राज्ञा समाहूतौ लोहकृत्सूत्रधारकौ ॥४०१॥ लोहं लोहकृते भूमानर्पयामास सस्मयम् । निर्माति स्म ततः सद्यः स मीनं लोहमूत्रितम्॥४०२॥ ततोऽपवरकं पृष्ठे तस्य मीनस्य स व्यधात् । शुभेऽह्नि लोहकृत् तत्र प्राविशद् भूभुजा समम्॥४०३॥ पृष्ठेऽथ कीलिका तस्य निहिता वायुधारिणी । उत्पपात नभोमार्ग मत्स्यः शकुनिराडिव ॥४०४॥ मीनस्थो जगतीपालो ग्रामाकुलपुराकुलाम् । विपुलां विपुलां वीक्षांचक्रे विद्याधरोपमः ॥४०५॥ वार्द्धिमध्यं गते मीने छन्नेऽपवरके सति । गर्भस्थाविव रेजाते लोहकृत्पृथिवीश्वरौ ॥४०६।।