________________
अष्टमः सर्गः।
३२१ दुष्टाष्टकर्मविस्तीर्णनेपथ्यान्तरितः सदा । नटवद् भवनाव्येऽस्मिन् जन्तुर्विपरिवर्त्तते ॥३८०॥ बध्यते जीवसारङ्गः खेच्छया संचरन्नपि । पुरन्ध्रीरूपपाशायैः कामव्याधेन दुर्धिया ॥३८१॥ आदरः परदारेषु वदाराणां विवर्जनम् । भवेत् पिपतिषोः पुंसो नरके नर ! केवलम् ॥३८२॥ गोत्राचारपरीहारः प्राणानां संशयागमः। साधुवादपरिभ्रंशः परस्त्रीगमनाद् ध्रुवम् ॥३८३।। एतद्वाक्यश्रुते राजपुत्रो वैराग्यमागतः । विरक्तः परदारेषु निषेधं प्रत्यपद्यत ॥३८४॥ प्रणिपत्य पुनः सुरेः पादाम्भोजं नृपाङ्गजः । निवर्तमानश्वाऽद्राक्षात्कलहं योषितां पथि ॥३८५।। किं वृथा कलहायेथे रोषोत्कर्षाद् मुहुर्मुहुः १ । इति पृष्टा कुमारेण चैका तन्मध्यतोऽवदत् ॥३८६॥ देवाहं लोहकारस्य पत्नी सौभाग्यकन्दली । पूर्णकुम्भद्वयाऽत्राऽऽगां भारभुग्नशिरोधरा ॥३८७।। इयं रथकृतः पत्नी नाना कनकमञ्जरी । रिक्तकुम्भद्वया देव! समागान् मम संसुखं ॥३८८॥ रिक्तकुम्भद्वयादेव मोच्यो मार्गोऽनया मम । एकं कारणमेवेदमपरं च निशम्यताम् ॥३८९॥ यावन्मानं हि पत्युमें विज्ञानं जगतीतले । तादृग् न कस्यचिद् नूनं विद्यते वाग्मिनां वर! ॥३९०॥ कौतुकाऽऽक्षिप्तचेतस्कः कुमारः प्राह किं तव । पत्युः समस्ति विज्ञानं सर्वलोकप्रमोदकृत् ? ॥३९१॥ मत्पतिश्चन्द्रदेवाख्यो लोहकारशिरोमणिः । विज्ञानवल्लरीजालपादालसमः प्रभो ! ॥३९२॥ स चेल्लोहमयं मीनं विधत्ते राजशासनात् ।