________________
३२०
माल्लिनाथमहाकाव्येश्रीचण्डरुद्र आचार्यः शिष्यकेवलिना सह ॥३६७॥ विहृत्य सुचिरं धात्र्यां प्रतिबोधपरायणौ । शिवामचलस्वरूप प्रापतुर्मोक्षसम्पदम् ॥३६८॥ तत्छ्रुत्वा तापसाः सर्वे प्रशान्तहृदयास्ततः। . अगृह्णन् स्वामिनः पार्थे दीक्षां सर्वज्ञभाषिताम् ॥३६९॥ ततश्च भगवांस्तस्माद् विहरन् मदिरावतीम् । पुरीं शक्रपुरी लक्ष्म्या ययौ त्रिभुवनार्यमा ॥३७०॥ तत्र राजा यशश्चन्द्रः प्रकृत्या स्त्रैणलम्पटः । तदैव स्वर्वधूरूपं द्रष्टुं प्रापाऽन्तिके प्रभोः ॥३७१॥ तस्य प्रबोधमुद्दिश्य कुलध्वजनरेशितुः । कथां गदितुमारेभे धीरवाचा जगद्गुरुः ॥३७२॥ तथाहिजम्बूद्वीपाऽभिधे द्वीपे वर्षे दक्षिणभारते । अस्त्यऽयोध्येति नगरी चूडारत्नमिव क्षितेः॥३७३॥ तत्राऽभूद् भूपतिः शङ्खो धुरीणः सर्वभूभृताम् । सधर्मचारिणी तस्य धारिणी धर्मचारिणी ॥३७४॥ तयोः कुलध्वजः पुत्रो ध्वजवद् वंशभूषणम् । द्वासप्ततिकलागारं द्वारं निःशेषसम्पदाम् ॥३७५॥ अन्येचुर्नगरोपान्ते बाह्याली गतवानसौ। अमात्यादिपरिवृतः समानगुणशालिभिः ॥३७६॥ अधः पद्मासनासीनं शतशाखस्य शाखिनः । सेवकैरिव राजानं मुनिवृन्दैः परिवृतम् ॥३७७॥ वाचा मधुमुचा तत्र कुर्वाणं धर्मदेशनाम् । मूर्त धर्ममिवापश्यद् मानतुङ्गाऽभिधं गुरुम् ॥३७८॥
(युग्मम् ) विनीतवेषस्तत्पार्चे गत्वा नत्वा यथाविधि । उचितासनमासीनः श्रुतवान् धर्मदेशनाम् ॥३७९॥