________________
अष्टमः सर्गः।
३१९ क्षमावतां धुरीणोऽसौ शैक्षोऽथ ध्यातवानिति । अहं हा! गुरुसन्तापनिदानं ववृतेतराम् ॥ ३५४ ॥ विनीतशिष्यसङ्घाताद् मनिदानेन साधुराट् । निष्क्रान्तो लभते कष्टं स्खलति स्म पदे पदे ॥३५५॥ आचार्यसवितुः सर्वतपस्तोमापहारिणः। उपप्लवाय संजज्ञे मल्लाभो बुद्धयोगवत् ।। ३५६ ॥ नतोऽप्याऽऽक्रोशतोऽप्यस्य न दोषः कोऽपि वर्तते । यतो ममाऽपराधोऽयं विहारः कारितो निशि ॥३५७॥ केचिद् निजगुरुन् भक्त्या शक्रा इव जिनेश्वरम् । बहुलोद्भिन्नरोमाश्चाः सेवन्ते प्रतिवासरम् ॥३५८॥ एवं भावयतस्तस्य क्षमासम्भृतचेतसः। उत्पन्न पञ्चमं ज्ञानं सर्वपर्यायतत्त्ववित् ॥ ३५९ ॥ कराब्जमुक्तावल्लोकमखिलं पश्यतः सतः । सुखेन नयतः मूरिं विभाति स्म विभावरी ॥३६०॥ मूर्तिमत्क्रोधसप्ताचेालां रुधिरधोरणीम् । क्षरन्ती मूरिरैक्षिष्ट शिष्यमस्तकपर्वतात् ॥ ३६१ ॥ नवव्रतोप्यऽसौ धन्यो नैव पूर्ववतोऽप्यऽहम् । अक्षमाऽभूद् ममेदृक्षा क्षान्तिरस्येदृशी परम् ॥३६२॥ सच्चारित्रं मया प्रोक्तं कृताः सिद्धान्तवाचिकाः। परं क्षान्तिर्मया नैव चक्रे साधुजनोचिता ॥ ३६३ ।। साधवस्त त्यजुर्मा ते क्रोधापस्मारदूषितम् । एकक्रोधावकाशेऽपि निष्प्रकाशमभूत् परम् ॥३६४॥ अन्तःक्षमावतां वासे वसन्नपि निरन्तरम् । अक्षम्यहं यतोऽम्बुस्थः कुलीरस्तरणे पटुः ॥ ३६५ ॥ एवं सुतीव्रसंवेगवह्निना कर्मपादपम् ।। दहतः केवलज्योतिरुद्भिन्नं पापघातकम् ॥३६६॥ भूयोऽप्यसौ परीवारसम्पदा समयुज्यत ।