________________
३१८ मलिनाथमहाकाव्ये
एवं खेदप्रपन्नेषु मित्रेषु निखिलेष्वऽथ । उवाच स युवा नव्यदीक्षितः पूर्वसाधुवत् ॥ ३४१ ॥ विप्लवादपि संप्राप्तं श्रामण्यं जिनभाषितम् । गृहीतं काचखण्डस्य शङ्कया रत्नसन्निभम् ॥३४२॥ अकामस्याऽपि दीक्षा मे जज्ञे पुण्यप्रसाधिका । अनिच्छयाऽपि संभुक्ता मोदकाः किं न तृप्तये॥३४३॥ यूयं मित्राणि मित्राणि भवार्णवनिमज्जनात् । यदहं तारितस्तूर्ण व्रतपोतपदापनात् ॥ ३४४ ॥ इति तस्य गिरः श्रुत्वा बाष्पपूर्णविलोचनाः। तदलङ्कारमादाय ययुस्ते खं निकेतनम् ॥ ३४५॥ शैक्षोऽवादीद् गुरुं नत्वा मुखवासपुरःसरम् । मुनीन्द्र ! स्वजना नूनं कारो मे व्रतक्षितिम्॥३४६॥ करणीयं तथा स्वामिन् ! यथा जैनेन्द्रदर्शने । न स्याद् हास्यास्पदं किंचित् पाखण्डिषु निरन्तरम् ३४७ ऊचे मूरिर्दिवा वत्स ! वर्त्मनः प्रत्युपेक्षणम् । क्रियतां सत्वरं यस्मादावाभ्यां गम्यते निशि ॥३४८॥ तथेति प्रतिपद्याऽसौ कृत्वाऽध्वप्रत्युपेक्षणम् । आगच्छद् मुनिवेषेण बभौ गीतार्थवत् तदा ॥३४९।। मूरिणा सह शैक्षोऽथावश्यकं कृतवानऽसौ । व्यतीते रजनीयामे निशि तेन सहाञ्चलत् ॥३५०॥ स्पष्टमग्रस्थिते मार्गमव्यग्रं कथयत्यपि । तस्मिन् जराभरक्रान्तः पदे पदेऽस्खलद् मुहुः॥३५१॥ कीदृशं प्रत्युपैतिष्ठा मार्ग रे! शैक्ष! दुर्जन! । इति वाक्यैर्वह्रिकल्पैः स्वशरीरे ददाह सः ॥ ३५२ ॥ शिष्यशीर्ष गुरुः क्रोधादवधीद् दण्डकोटिना । कोपारघडखाट्कारविस्तारभ्रमसंनिभम् ॥३५३॥
१ शिष्यः, इत्यपि। २ व्रतनाशमित्याशयः ।