________________
अष्टमः सर्गः।। ३१७ दर्शितः सस्मितं पाणिसंज्ञया मुनिपुङ्गवः । नत्वा मूरिं ततस्तद्वत् सुहृद्वर्गोऽप्यवोचत ॥३२८॥ मया सह कथं मूर्खा एते हास्यं वितन्वते । तत्फलं दर्शयिष्यामि केशलुश्चनकैतवात् ॥३२९॥ : ध्यात्वेति कोपनः मूरिः कम्पमानकराधरः। तैर्भस्माऽऽनाययद् वेगात् तेषां क्षेप्तुमिवानने ॥३३०॥ वीक्षामहे करोत्येष किमिदानी मुनीश्वरः ।। भस्मोपनिन्यिरे तेऽपि विचिन्त्येति कुतूहलात् ।।३३१॥ लुलुश्च तत् शिरस्तूर्ण विधृत्योरुद्वयेन सः। गुरो! मा लुश्च मुश्चैनं तेषामारटतामिति ॥ ३३२ ॥ अचिन्तयद् नवोढोऽथ लुञ्चितोऽहं यथा तथा । . इदानीं गर्हिताऽत्यन्तमीदृक्षस्य गृहस्थता ॥ ३३३ ॥ हास्येनाऽपि मया प्राप्तं श्रामण्यं भवतारकम् । इदानीं भावतस्तावत् प्रपद्येऽर्हनिवेदितम् ॥ ३३४ ॥ ऊर्ध्वस्थमित्रवर्गाणामश्रुभिर्निर्जरोपमैः । तस्य भस्माविले मूर्ध्नि पङ्कशङ्का व्यजृम्भत ॥ ३३५ ॥ अस्माभिर्यत् कृतं हास्यमपतद् मस्तकेऽस्य तत् । वराहात्तेक्षुदण्डेषु पिष्यते माहिषं मुखम् ॥ ३३६ ॥ अविचारितमेवैतत् कृतमस्माभिरुच्चकैः। केशलुश्चनदम्भेन तदस्य फलमुत्थितम् ॥३३७॥ सुहृदोऽसुहृदो जाता वयमस्य दुराशयाः। अनाथस्येव यदियं दशा जज्ञे मनोऽतिगा॥ ३३८ ॥ एतत्स्वजनलोकस्य विवाहक्षणशालिनः । कथं वार्ता महोद्वेगकारिणी कथयिष्यते ? ॥ ३३९ ॥ कुसङ्गाद् जायते नो चेद् मरणं गञ्जनं भवेत् । कृत आहानकोऽस्माभिर्यथार्थकुटिलाशयः ॥३४०॥
१ तिरस्करणमिति मतम् ।