________________
३१६ मल्लिनाथमहाकाव्ये
मनोगतपरिज्ञातादुत्कर्णास्तेऽवदनिति । प्रणत्य भगवत्पादौ कोपाख्यानं प्रकाशय ॥३१५॥ अथ प्रबोधमुद्दिश्य श्रीमन्मल्लिजिनेश्वरः। एवं गदितुमारेभे प्रत्यूहध्वान्तभास्करः ॥३१६॥ सिद्धान्तपारदृश्वापि प्रकृत्या कोपनोऽधिकम् । चण्डरुद्राभिधः सरिरभूद् भुवनविश्रुतः ॥ ३१७॥ .. अत्यल्पेऽपि क्रियालोपे प्रमाद्यन्तं कदाचन । आचुक्रोश मुनियामं क्रोधावेशविसंस्थुलः ॥३१८॥ स्तोकमानं मुनीनां स स्खलितं सोढुमक्षमः । गच्छस्य दूरदेशेऽस्थाद् मुनिसंक्लेशभीलुकः ॥३१९॥ मासकल्पेन सातत्यं गच्छेन सह संयमी । . विहरन् मालवे देशेऽवन्त्युद्यानमुपेयिवान् ॥ ३२०॥ इतः कश्चिन्महेशस्य सूनुः कन्दर्पसुन्दरः । पर्यणयत वित्तेशकन्यकां रतिसन्निभाम् ॥ ३२१ ॥ मित्रैः समानशीलाङ्गैस्तत्पादाम्भोजपावितम् । स युवा क्रीडितुं रम्यं तदुद्यानं समागमत् ॥३२२॥ . नानाविधाभिः क्रीडाभिः क्रीडन्तः प्रतिपादपम् । ददृशुः सुहृदस्तस्य धर्मध्यानरतान् मुनीन् ॥ ३२३ ॥ यथाचारं नमस्कृत्य गर्भश्रावकसन्निभाः। ववन्दिरे मुनीनेतान् क्षमाश्रमणपूर्वकम् ॥ ३२४ ॥ . पूज्याः ! सखाऽयमस्माकं बाल्याद् वैराग्यनिर्भरः। व्रतं गृहीतुकामोऽस्ति कुरुताऽस्य समीहितम् ॥३२५॥ शठान् वण्ठानिव ज्ञात्वा जजल्पुर्मुनिपुङ्गवाः। . दीक्षायामधिकारोऽस्ति गुरोरस्मादृशां नहि ॥३२६॥ ... काऽऽस्ते गुरुस्तदापृष्टैः कृतवक्रौष्ठिकैश्च तैः। . . इत्यचिन्त्यत निग्रन्थैर्घष्यतां कलिना कलिः ॥३२७॥
१ मुदिताऽऽशया एवमपि। २ कृतहास्यैरित्यर्थः ।