________________
-- १४
मल्लिनाथमहाकाव्ये
आ वाजिहरणाच्छ्रुत्वा वृत्तान्तं तनयोद्भवम् । युगपच्छो कहषीभ्यामभ्यपूर्यत भूपतिः ।। ६२ ।। कियत्यथ गते काले परलोकं प्रपित्सुना । राज्ये भूपतिना न्यस्तो रत्नचन्द्रः शुभे दिने ॥ ६३॥ असौ ररक्ष भूपीठमखिलं ग्रामलीलया । अरिषदकं निजग्राह दुर्ग्रहं शास्त्रसम्पदा || ६४ || अन्येद्यवि निशाशेषे सुखसुप्तं क्षितीश्वरम् । सर्पः सदर्पो निद्राणं वामपाणौ ददंश तम् ॥ ६५ ॥ आहूता मान्त्रिकास्तेषामुपचारपरम्परा । अजायत वृथा सर्वा दुर्जनोपकृतिर्यथा ॥ ६६ ॥ अथ विज्ञाय पञ्चत्वं प्रस्थितं पद्मलोचना | विललापेति विरसैर्विषदिग्धैरिवाक्षरैः ॥ ६७ ॥ एतत्तदेव हृदयं विशालं व्योमपीठवत् । यत्र ज्योत्स्नेव रेमेऽहं शारदीनहिमद्युतेः ॥ ६८ ॥ हे नाथनाथ ! विस्मेरप्रसूनैस्त्वां विनाऽपरः । कः करिष्यति मे कर्णौ कर्णोत्तंसविभूषणौ ? ॥ ६९ ॥ अनङ्गलीलालुलितानलकानतिचञ्चलान् ।
कः कर्त्ता स्थानविन्यस्तसुभगान्निधने तव । ॥ ७० ॥ विषमायुधसन्तापतप्ते मम शरीरके । कः कर्ता चन्दनरसैः शीतशीतैर्विलेपनम् ॥ ७१ ॥ को विधास्यति मे नाथ ! पत्रवल्लीं कपोलयोः ? । सिक्तां प्रेमरसैः कामं कामारामिकलालिताम् ॥ ७२ ॥ विलप्यैवं प्रिया राशः प्रकृतीः प्रत्यकृत्रिमम् । योजयित्वा करद्वन्द्वं बभाषे सात्त्विकं वचः ॥ ७३ ॥ प्राणनाथपथं भद्राः ! याताऽहं विरहासहा । यानपात्रमिवाह्नाय सज्जीकुरुत पावकम् ॥ ७४ ॥