________________
- अष्टमः सर्गः।
३१३ इत इतः पलायन्त इतोऽपि श्रूयते रवः। . इतोऽपि दृश्यते रेणुश्चौराणां चरणोद्भवः ॥२७६॥ ब्रुवाणैः पदिकैरेवमनुस्यूता इव क्षणात् । सलोमांस्तस्करान् क्रूरान् ददृशुः पुररक्षकाः ॥२७७॥ इतो गृह्णीत गृहीत हत हतेति भाषकैः । रक्षकैस्तस्करा व्याप्ता मृगा वागुरिकरिव ॥२७८॥ आरक्षकजनत्रातघातवित्रस्तचेतसः। वित्तं मुक्त्वा प्रणेशुस्ते श्येनादिव विहङ्गमाः ॥२७९॥
आरक्षपुरुषा वित्तं दुष्पापं प्राप्य पुष्कलम् । व्यावर्त्तन्त, कृतार्था हि जनाः स्वस्थानगामिनः।।२८०॥ सुंसमामुदहन्नंशे खड़यष्टिमिवाऽपराम् । अरण्यानीं प्रविष्टोऽसौ गुहामिव मृगाधिपः ॥२८१॥ सहितः पञ्चभिः पुत्रैः पुत्रीं क्रष्टुं तदाननात् । वमनःस्पर्द्धयेवाऽऽशु धावति स्म धनोऽसुखी ॥२८२॥ समीपमागते तस्मिन् सुसमा माऽस्तु मेऽस्य सा । ध्यात्वेति कदलीलावमलावीत् सुसमाशिरः ॥२८३॥ पुरस्तात्तत्कबन्धस्य पुत्रयुक्तो धनो रुदन् । अरोदयत् तरुश्रेणी प्रतिध्वानैः सुदुःश्रवैः ॥२८४॥ तस्याः कबन्धमुत्सृज्य निवृत्तोऽसौ सनन्दनः । नखंपचरजा जज्ञे मध्याह्नसमयस्ततः ॥२८५॥ श्रेष्ठिशोकेन विच्छायाः स्वजना इव शाखिनः । बाढमश्रूणि मुञ्चन्ति पतत्किञ्जल्ककैतवात् ॥२८६॥ न जलं न फलं काऽपि ददृशुर्धननन्दनाः। पशूश्च प्रत्युत हिंस्रांश्चौरेशमेरितानिव ॥२८७॥ पुत्रिकामरणं वित्तनाशो दुःखसमागमः।
विचिन्त्येति धनो दैवमुपालभत भूरिशः ॥२८८॥ १ अपहृतद्रविणसहितानिति भावः । २ स्कन्ध इत्यर्थः। ३-ऽसुधीरित्यपि ।
४०