________________
मल्लिनाथमहाकाव्ये
दैवमेवापदां कर्तृ हर्तृ सुप्राप्त सम्पदाम् । विधातृ शुभबुद्धीनां दातृ निन्द्यधियामपि ॥ २८९ ॥ इत्थं ध्यायन् धनः श्रेष्ठी प्राप राजगृहं पुरम् । समायाकाराssशु प्रेतकार्य यथाविधि ॥ २९० ॥ अथ वैराग्यमापन्नः श्रीवीरस्वामिसन्निधौ । व्रतं प्राप तपस्तप्त्वा धनर्षित्रिदिवं ययौ ।। २९१॥ चैलातेयः समाया वीक्षमाणो मुखं ययौ । दिशं याम्यामुपगतां प्रियामनुव्रजन्निव || २९२॥ कायोत्सर्गस्थितं ध्यानतत्परं कामविद्विषम् । सोऽप्रकम्पं मेरुमिव मुनिमेकमथैक्षत ||२९३ ॥ स्वकीयकर्म्मणा कामं लज्जितस्तमुवाच सः । धर्मं ब्रह्मन्यथा तेऽपि छेत्स्याम्यस्याः शिरो यथा ॥ २९४ ॥ स ज्ञानी ज्ञानतो ज्ञात्वा भव्योऽयमिति चाब्रवीत् । उपशमो विवेकश्च संवर: कार्य इत्यपि ।। २९५|| ततश्व चारणमुनिर्नभोगमनविद्यया । उत्पपात महासत्त्वः सत्त्वराशिप्रबोधकृत् ॥ २९६ ॥ अथ भावयतस्तस्य वारं वारं पदत्रयीम् । उल्लेख ईदृशो जज्ञे दुष्टस्याऽपि शुभोदयात् ॥ २९७॥ क्रोधादीनां कषायाणां कुर्यादुपशमं सुधीः । तैरहं हहहा !! क्रान्तः कुष्ठीव कृमिजालकैः || २९८॥ श्रद्धामुकुटजं कुर्वन् पथ्यं सन्तोषचूर्णितम् । चिकित्साम्यद्य तान् सर्वान् शमभेषजयोगतः ॥ २९९ ॥ धर्मरोहणमाणिक्यं लग्नकं शिवसम्पदः । कार्मणं कीर्त्तिकान्ताया आवालं ज्ञानशाखिनः॥ ३००॥ अधिष्ठानं माहात्म्यस्य क्रकचं मोहदारुणः । विवेकं कुरुतां धीमान् सावद्यत्यागलक्षणम् ||३०१ ॥ ( युग्मम् ) १ श्रद्धारूपां मौद्गमेव पथ्यं कुर्वन्नित्यान्तरम् । २ मोहकाष्ठस्येति ज्ञानीयम् ।
३१४