________________
मल्लिनाथमहाकाव्ये
योजयामास दासेरं युक्तेयं स्थितिरीदृशाम् || २६२ ॥ भूयांस्याssगांस्यऽसौ चक्रे विभ्यत् श्रेष्ठीव राजतः । निरवासयदन्यायकृतं तं दन्दशूकवत् ॥ २६३ ॥ अन्यायपुंश्चलीक्रीडासङ्केतस्य निकेतनम् । पल्ली सिंहगुहाभिख्यामगाद् दासीसुतस्ततः ॥ २६४॥ अथो मलिम्लुचैः साकं प्रवीणैरनयाऽध्वनः । तस्याऽजायत सत्प्रीतिः सख्यं तुल्ये प्रवर्धते ॥ २६५॥ मृते सिंहगुहेशेऽसौ तत्पदे तैर्निवेशितः । नरेन्द्रेणाऽपि दुर्जेयः सपक्ष इव पन्नगः ॥ २६६ ॥ इतश्च सुसुमां कामो राजधानीमिवोत्तमाम् । कामिचित्तजनावासनिवेशाय विनिर्म्ममौ ॥ २६७॥ अस्ति राजगृहे श्रेष्ठी पञ्चपुत्रो धनाभिधः । सुसुमाख्या सुता तस्य निःसीमा रूपसम्पदा || २६८॥ युष्माकं द्रविणं तस्य संसुमा मे कुमारिका । व्यवस्थायेति तैः सार्द्धमगाद् धनगृहं निशि || २६९ || ( युग्मम् ) aasaarai विद्यां श्रेष्ठलोकस्य तत्क्षणम् । वेगेन लुण्टयामास निष्पुत्रस्येव तद् धनं ॥ २७० ॥ पद्मिनीमिव मातङ्गः पौलस्त्य इव जानकीम् । स सुंसुमामपाहार्षीत् प्रीतिवल्लीघनोदयाम् ।। २७१ ॥ तद्वासरोढजम्बुवद् मोघा विद्याऽभवद् धने । सपुत्रोऽपससाराऽथ नीतिनीतिमतामसौ ॥ २७२॥ लुण्टयित्वा धनं हृत्वा सुंसुमां च तथा स्वयम् । दुष्टबुद्धिः पलायिष्ट लुण्टाकैः सह दुर्जयैः ॥ २७३ ॥ धनः श्रेष्ठी समाहूय रक्षकानित्यभाषत । समानयत भोः ! वित्तं निःशेषं समामपि ॥ २७४॥ आरक्षकजनैः साकं नन्दनैरपि पञ्चभिः । अनुव्रजन् धनः श्रेष्ठी सुतामयममन्यत || २७५ ||
३१२
-