________________
अष्टमः सर्गः।
३११ जेष्यते येन यस्तस्य सोऽन्तेवासी भविष्यति । तयोर्विवदतोरेषा प्रतिज्ञाऽभून्महीयसी ॥२४९॥ हेतुवादी विवादेन सोऽजयत् चेल्लको द्विजम् । उदयंस्तरणिः किन्तु तमसा परिभूयते ॥२५॥ प्रतिज्ञातं व्रतं विप्रस्तस्य जग्राह सन्निधौ । प्रतिज्ञापालने सन्तस्त्वरन्ते दुष्करेऽपि हि ॥२५१॥ वृथाऽप्याऽऽस्वादितो हन्त ! सुधाऽऽहारो जराहरः । प्रतिज्ञावशतोऽप्याऽऽत्तं व्रतं सौख्याय जायते ॥२५२॥ एवं शासनदेव्याऽसौ बोधितोऽपि महामुनिः । अनिन्दद् वस्त्राङ्गमलम् दुस्त्यजा कुलवासना ॥२५३॥ ज्ञातयस्तस्य संसगोद् भेजुः शान्ति क्षणादपि । प्रावृषेण्याच सम्पर्को दवदग्धा द्रुमा इव ॥२५४॥ तस्य प्रणयिनी तत्रानुरागं बिभ्रती शठा । वश्याय पारणे तस्मै कदाचित् कार्मणं ददौ ॥२५५॥ स राजयक्ष्मणेवोच्चैः क्षयं तेनाऽनिशं व्रजन् ।। स्मरन् पञ्च नमस्कारं देवलोकमगान्मुनिः ॥२५६॥ तस्याऽऽवसानं सा श्रुत्वा वैराग्यात् सहचारिणी । व्रतं जग्राह मानुष्यजन्मभूमीरुहः फलम् ॥२५७॥ पतिहत्यात्मकं घोरमनालोच्यैव पातकम् । तपः कृत्वा दिवं साऽऽप तपः सर्वाऽर्थसाधकम् ॥२५८॥ यज्ञदत्तस्य जीवोऽथ च्युत्वा राजगृहे पुरे । धनसार्थपतेर्दास्याश्चिलात्या नन्दनोऽजनि ॥२५९॥ चिलातीपुत्र इत्येष चिलात्याः पुत्र इत्यभूत् । को नामकरणादीनि गोपानां हि प्रकल्पयेत् ? ॥२६०॥ यज्ञदत्तपियाजीवः पुत्रपश्चकपृष्ठतः । भद्राया धनभार्यायाः सुंसुमाख्या सुताऽभवत् ॥२६१॥ बालधारककर्मत्वे सुसुमाया धनो धनी ।