________________
३१०
मल्लिनाथमहाकाव्येतस्मिन् ममत्वमुच्चैर्यत्तद् मोहस्य विजृम्भितम् ॥ २३६ ॥ जीवाः सर्वे सुतत्वेन भार्यात्वेनापि जज्ञिरे । सबन्धः किं स कोऽप्यस्ति स्पृष्टः कर्मवशैन यः १ ॥२३७।। यस्यैव हर्षकार्याणि क्रियन्ते स्नेहगर्भितैः। तस्यैव प्रेतकर्माणि तन्यन्ते शोकसंकुलैः ॥२३८।। अनित्यताकृतमतिः शुष्कमाल्यो न शोचति । नित्यताकृतबुद्धिस्तु भग्नभाण्डोऽपि रोदिति ॥२३९।। इत्यादिस्वामिवाक्यानि श्रावं श्रावं महीपतिः । विरक्तो भवपाशेभ्यो राज्ये पुत्रं निवेश्य च ॥२४०॥ त्रिशतीप्रमितै राज्ञः पुत्रैर्वैराग्यरङ्गितैः । साकं श्रीमल्लिनाथान्ते श्रमणोऽजायतोच्चकैः ॥२४१॥
(युग्मम् ) इतश्च कश्चिदागत्य द्विजः प्रकृतिमानभृत् । स्तम्भ इव स्थिरोऽतिष्ठत् श्रीमल्लिस्वामिनः पुरः ॥२४२॥ उवाच जगतां नाथो मा मानं कुरु मानव!। अयं वन्द्योऽप्ययं निन्द्य इति चेतसि मा कृथाः॥२४३॥ पुराऽपि मानमाहात्म्याद् यज्ञदत्ताभिधो द्विजः। निन्दनीयकुले जातो विजातः कर्मबन्धने ॥२४४॥ पुरे क्षितिप्रतिष्ठाख्ये महीमण्डलमण्डने । यज्ञदत्तो द्विजः क्रोधी प्रतिघो मूर्तिमानिव ॥२४५॥ सोऽनिन्दत् पण्डितंमन्यो जिननायकशासनम् । जृम्भते स्वल्पबुद्धीनामात्मनीना न हि क्रिया ॥२४६।। तस्य निन्दामसहिष्णुः सहिष्णुरपि तत्क्षणात् । गुरुणा प्रतिषिद्धोऽपि चेल्लकः कोऽपि बुद्धिमान् ॥२४७॥ वादायाऽऽहाययामास यज्ञदत्तं द्विजं मुदा । यतः परबले दृष्टे नहि स्थातुमलं भटाः ॥२४८॥
(युग्मम् )