________________
३०९
अष्टमः सर्गः। विदाङ्करोतु भूपालो देवार्चाफलमुत्तमम् । पारत्रिकं ममानन्तसौख्यलक्ष्मीविधायकम् ॥ २२४ ॥ इमं विलोक्य संपन्ना मम जातिस्मृतिः प्रिय ! । इदं ततः पपाठाऽहं मूव्यिपगमे सति ॥ २२५ ।। इदं श्रुत्वा नृपः प्राख्यजिनेशार्चाफलं महत् । पारत्रिकं तवैतस्या ऐहिकं मम वर्त्तते ॥ २२६ ॥ इतश्च भगवान् धर्मो मूर्तिमानिव निर्ममः । मुनिचन्द्राभिधः सूरि भयं नन्तुमागतः ॥ २२७ ।। प्रणिपत्य मुनेः पादौ श्रुतवान् देशनां नृपः । सपत्नीकस्तु सम्यक्त्वं भावतः प्रत्यपद्यत ।। २२८ ॥ परमश्रावको राजा द्वादशव्रतपूर्वकम् । चकार जगतीं चैत्यैनिःशेषामपि भूषिताम् ॥ २२९ ।। देशे देशे महीपेन मारिव्यसनरक्षणम् । कारितं जीर्णचैत्यानामुद्धृतिश्च पुरे पुरे ॥ २३० ॥ निर्दोषमथ सम्यक्त्वं परिपाल्य मनोरमा ।
मृत्वा समाधिना प्राप पूर्णायुष्का सुरालयम् ॥ २३१ ॥ इतश्च
अथाऽऽस्तिकमहीपार्षसमेतः समतानिधिः। हस्तिनानगरं प्राप विहरन् जगतां पतिः ॥ २३२ ॥ खामिनं समवसृतं विज्ञाय जगतीपतिः। देवपालः समायातो वन्दितुं जगतां गुरुम् ॥ २३३ ॥ प्रदक्षिणिततीर्थेशः कृतस्तवनमङ्गलः। निषसाद यथास्थानं दत्तदृष्टिर्जिनेश्वरे ।। २३४ ॥ उवाच जगतां नाथो मोहपङ्कमहाप्लवः । राजन् ! राजीवनेत्राया मरणाद् दुःखमाप्तवान् ॥ २३५॥ अनित्यं सर्वमप्येतत् पयःपूर्णामकुम्भवत् । । १ प्राहेति च ।