________________
३०८ मल्लिनाथमहाकाव्ये
मूर्तिमद्भिरिवाऽम्भोदैर्घनाम्भःकणवर्षिभिः।। वीज्यते तालवृन्तैः सा मृदुवातमनोहरैः ॥२११।। उपचारशतैः कृत्वा मूर्छाव्यपगमे सति । एवं पपाठ भूपालवल्लभा मधुरस्वरम् ॥ २१२ ॥ अडविहि पत्ती न इहि जलु तो वि न बूढा हत्थ । अव्वो! तहवि कवाडियह ! अज्ज वि सावि अवत्थ ॥२१३। देवि! क एष वृत्तान्तो येन प्रोक्तं त्वयेदृशम् । साऽऽख्यद् देवेमकं काष्ठवाहकं द्रुतमानय ॥२१४॥ सोऽथाऽऽहूतः समायातः साऽऽख्यदेवी मनोरमा । देवायं काहलो नाम मत्पतिः पूर्वजन्मनि ॥ २१५॥ पूर्वजन्मनि पल्यऽस्याऽभवं सिंहलिकाहया । दुःखदौर्भाग्यदौर्गत्यपराभवनिकेतनम् ॥ २१६ ॥ अन्यदाऽनेन संयुक्ता गताऽहं काष्ठहेतवे । वनमध्ये महाकायतालशालमनोहरे ॥ २१७ ॥ मिथ्यात्वाभ्रे गते दूरं सूर्यवज्जिननायकः । दृष्टो दिष्टया जगन्नाथः सनाथोऽतिशयश्रिया ॥ २१८ ॥ पूजयाव इमं देवमावां प्रिय ! जगन्नतम् । मयोचेऽयमथ प्राह त्वमेव कुरु सर्वदा ॥ २१९ ॥ 'निर्द्धर्म वल्लभं ज्ञात्वा गत्वा शैवलिनीतटम् । सिन्दुवारैरिमं देवं भावतः पर्यपूजयम् ॥ २२० ॥ अत्रान्तरे महीपाल ! त्वं दृष्टो गोपवेषभृत् । पूजयंत्रिजगन्नाथं जटाजूटेन मण्डितम् ॥ २२१ ॥ धन्योऽयं जगतां नाथं यः पूजयति भावतः । मत्पतिर्न पुनर्नूनं देवपूजापराङ्मुखः ॥ २२२ ॥ दधती भावनामेवं तस्मिन्नेव दिने नृप! । कदन्नाशनयोगेन मृत्वा राज्ञः सुताऽभवम् ॥ २२३ ॥ १ निर्धर्मवासनमित्यपि।