________________
अष्टमः सर्गः ।
३०७
तत्क्षमस्व महीपाल ! पुण्यलक्ष्मीनिकेतन ! ॥ १९७ ॥ ततो देवानुभावेन निःशेषाः पृथ्वीभुजः । आज्ञां प्रपेदिरे तस्य शेषामिव नरेशितुः || १९८ ॥ शाश्वतार्हद्भवनानां सदृशं पृथिवीपतिः । तचैत्यं कारयामास स्वर्णस्तम्भमनोहरम् ॥ १९९॥ श्वेतवस्त्रे परिधाय भक्तिमान् पृथिवीपतिः । पुष्पैरान तीर्थेश त्रिसन्ध्यं श्रेणिको यथा ॥ २०० ॥ स्वचैत्ये कारयामासाऽष्टाह्निकादिषु पर्वसु । शासनोन्नतये राजा नाट्यं सूर्याभदेववत् ||२०१॥ अन्यदा वन्दितुं देवमचलद् नगराद् नृपः । सार्द्ध मनोरमादेव्या शच्येव घनवाहनः ॥ २०२॥ कौपीनवसनं क्षामं भारभुग्नशिरोधरम् । मनोरमा पुरोऽद्राक्षीद् व्रजन्तं काष्ठवाहकम् ॥ २०३॥ तं विलोक्य मुमूर्छाss देवी मोहपरायणा । अर्द्धविच्छिन्नशाखेव पपात पृथिवीतले ॥ २०४॥ तथाविधापदि प्राप्तां दृष्ट्रा देवीं मनोरमाम् । वज्राहत इव क्ष्मापः कृच्छ्राद् वक्तुं प्रचक्रमे ॥ २०५ ॥ यो यद् वेत्ति जनः सर्वः स तच्च कुरुतामिह । स्मर्तव्या व्यसनप्राप्ते विद्या मन्त्राधिदेवताः ॥ २०६ ॥ वैद्या: प्राहुः पित्तमूर्छा दैवज्ञा ग्रहपीडनम् । मान्त्रिका देवतादोषमाप्ता मुद्गलविप्लवम् ॥२०७॥ प्रगुणं रचयामासुर्भिषजः शर्करादिकम् । दैवज्ञा विदधुः पूजां ग्रहाणां मन्त्रपूर्वकम् ॥२०८॥ देवतानां समारेभे पूजनं मान्त्रिकैरथ । मन्यन्ते नितरामाप्ता उपयाचितसंहतिम् ॥ २०९ ॥ एकतश्च विरच्यन्ते शय्याः पङ्कजिनीदलैः । एकतश्वापि चूर्यन्ते स्थूलमौक्तिकसशयः ॥ २१० ॥