________________
३०६
मल्लिनाथमहाकाव्ये
अहं खिधे कथंकारं येन दत्तमिदं पदम् १ | स करिष्यति निःशेषं जनमाज्ञाविधायिनम् ॥ १८४ ॥ ततोऽर्चयित्वा विधिवज्जिनेन्द्रमिति सोऽवदत् । कथं दत्तं त्वया राज्यं स्वामिन्! विप्लवकारणम् १ ॥ १८५ ॥ अथोचे व्यन्तरो भद्र! गजेन्द्रं मृत्तिकामयम् । विनिर्माय समागच्छेः समारुह्यात्र वन्दितुम् ॥ १८६॥ द्विरदोऽस्मत्प्रभावेण त्वय्यारूढे चलिष्यति । आज्ञां करिष्यते सर्वस्ततस्तव निरन्तरम् ॥ १८७॥ श्रुत्वेति भूपतिः प्राप प्रासादं मुदिताशयः । कुम्भकारा नृपादेशाच्चक्रुर्मृत्स्नामयं गजम् ॥ १८८ ॥ इममारुह्य भूपालो वन्दितुं जिननायकम् । आगामीति ततो जज्ञे पुरे हास्यास्पदं महत् ॥ १८९ ॥ सामन्ता मन्त्रिणां पुत्राः पौरग्रामेयका अपि । तमवेक्षितुमाजग्मुः सर्वोऽप्यद्भुतकौतुकी ॥ १९० ॥ शुभे गजमारुह्याहूय तं श्रेष्ठिपुङ्गवम् । सशृङ्गारो महीपालः पश्वासने न्यवेशयत् ।। १९१ ॥ व्यन्तरस्यानुभावेन करी मृत्स्नामयोऽचलत् । विसिष्मिये जनः सर्वः पश्यन् नवकुतूहलम् || १९२ ॥ पुरात् स्वे निर्मिते गत्वा चैत्ये नत्वा जगद्गुरुम् । तमेव गजमारूढो नृपोऽगाद् निजमन्दिरम् ॥ १९३ ॥ आलानस्तम्भसम्बद्धं श्रेष्ठिनेनं गजं कुरु । इत्यादेशं महीभतुर्लब्ध्वा सो हर्षितोऽभवत् ॥ १९४ ॥ श्रेष्ठिना राजवत् तेन दत्ता कुम्भे मृणिक्षितिः । न चचाल पदं हस्ती वारित इव केनचित् ।। १९५ ॥ वीक्षापन्नोऽभवच्छ्रेष्ठी तस्मादुत्तीर्य सत्वरम् । नृपपादाम्बुजं भक्त्या नमन्निदमुवाच च ।। १९६ ॥ गोपाल इति यत्कृत्वाऽपराद्धं भवतः प्रतिः ।