________________
अष्टमः सर्गः।
३०५ पुरे भ्रान्तानि तान्यापुर्नैव राज्यधरं नरम् ।। मध्याह्नसमये जग्मु ह्योद्यानादिवीथिषु ॥१७१।। निदद्रौ देवपालोऽथ कस्यचित् शाखिनस्तले । यष्टिमुच्छीर्षके कृत्वा कम्बलाऽऽवृतविग्रहः ॥१७२॥८ देवपालं समालोक्य नवाम्बुकणवर्षकः । करी जगजै गम्भीरं तडित्वानिव मूर्तिमान् ॥१७॥ हेषां चकार वाल्हीकः कोकिला ध्वानसुन्दरम् । विस्तृतं पाण्डुरं छत्रमुत्फुल्लकमलोपमम् ॥१७४॥ जाह्नवीलहरीश्वेते चामरे चेलतुः स्वयम् । अभिषिच्य करीन्द्रेण न्यस्तः स्कन्धे विभुर्गवाम् ॥१७५॥ ततः सिंहरथेनाऽसौ महोत्सवपुरस्सरम् । तत्रैव वासरे पुत्र्याः कारितः पाणिपीडनम् ॥१७६॥ ततः सिंहस्थो गत्वा नरेन्द्रो मुनिसन्निधौ । व्रतं जग्राह भावेन पूर्वोपात्ततमोऽपहम् ॥१७७॥ कृत्वा चतुर्विधाहारपरित्यागं महामुनिः । चतुर्थे देवलोकेऽसौ पूर्णायुष्कः सुरोऽभवत् ॥१७८॥ तदुपानत्कम्बलाचं गोपालैः श्रेष्ठिनो गृहे । अन्यैः समर्पितं गावः स्वयमीयुर्दिनात्यये ॥१७९॥ गोपाल इति कृत्वा तं सामन्ता नन्तुमीय॑या । अहङ्काराद् न चाऽऽयान्ति जनाः पूजितपूजकाः ॥१८॥ महाजनप्रधानोऽयमिति ध्यात्वा विशां पतिः । आजूहवजिनदत्तं नाऽऽययौ सोऽप्यऽवज्ञया ॥१८१॥ कम्बलादि निशाप्रान्ते सिंहद्वारे नरेशितुः । अवज्ञोपायनानीव जिनदत्तोऽप्यऽमोचयत् ॥१८२॥ तान्याऽऽलोक्य निदध्यौ स हहा! पूर्वविजृम्भितम् । तृणायाऽपि न मन्यन्ते धिग् मां राज्यर्द्धिभूषितम् ॥१८३॥ अश्व इत्यभिधेयम् ।