________________
मल्लिनाथमहाकाव्ये
दिनानि त्रीणि ते राजन् ! आयुष्कमवशिष्यते । इत्युक्तवान् मुनिर्ज्ञानज्ञात सर्वजगत् स्थितिः ॥ १५८ ॥ शीतार्त्त इव भूपालः कम्पमानकरद्वयः । स्तोकेन जीवितव्येन किं करिष्यामि सम्प्रति १ ।। १५९ ।। अथाह भगवानेवं मा विषीद रसापते ! । अणुनाsध्यायुषा किं न क्रियते हि विवेकिभिः १ ॥ १६० ॥ मुहूर्त्तमपि सावद्यत्यागः स्यात् शाश्वतश्रिये । हन्यन्ते विषकल्लोला एकस्मादपि मन्त्रतः || १६१॥ विन्यस्य पुरुषं कञ्चिद् राज्ये प्रबलविक्रमम् । आगच्छामि प्रभो ! यावत् तत् त्वं तिष्ठ दयानिधे ! ॥ १६२ ॥ महापुरुष ! मा कार्षीः प्रमादं मूलमापदाम् । सर्वेर्षामपि कार्याणां प्रमादः प्रथमो रिपुः || १६३ ॥ प्रणिपत्य गुरोः पादौ यथास्थानमगान्नृपः ।
३०४
तच्चिन्तयाऽपि कृच्छ्रेण कृत्स्नं दिनमवाहयत् ।। १६४ ॥ कोsधिष्ठितस्य लोकस्य भावी विक्रमवारिधिः । केनोपायेन निष्पुत्रो मोक्ष्यामि क्षितिपालनम् ॥ १६५ ॥ तस्य चिन्ता प्रपन्नस्य सिद्धाख्या कुल देवता । प्रत्यक्षाऽभूत् तमस्विन्यां दीपिकेव तमोपहा ।। १६६ ॥ मा कृथाः सर्वथा खेदं नरनाथ ! स्वमानसे । अभिषिञ्च प्रभाते त्वं दिव्यपञ्चकमुच्चकैः ।। १६७ ॥ तत्कृतं पुरुषं राज्ये विन्यस्य निजपुत्रवत् । परलोकाय पश्चाचं यतस्वोक्त्वेति साऽगमत् ॥ १६८ ॥ प्रभातेऽथाऽभिषिक्तानि पञ्च दिव्यानि भूभुजा ।
मुस्तान्यथ सर्वत्र प्रतिरथ्यं प्रतित्रिकम् || १६९ || मन्त्रि सामन्त पुत्राश्च मुस्तद्राज्य लिप्सया । पुरो द्विपस्य शृङ्गारैरिन्द्रसामानिका इव ॥ १७० ॥