________________
अष्टमः सर्गः।
३०३ सुखसागरकल्लोलैरिवाप्तं स्वं विचिन्तयन् । प्रणनाम जिनाधीशं पठितस्तोत्रपूर्वकम् ॥ १४५ ॥ तद्भक्तितोषितेनोच्चैःस्थितेन गगनाङ्गणे । तदधिष्ठातृदेवेनेत्यूचेऽथ रुचिरं वचः ॥ १४६ ॥ वरं वृणु महाभाग! यथेच्छं स्वच्छमानसः। गुरूणां क्रमसेवा हि सफलैव शरीरिणाम् ॥ १४७ ॥ यदि तुष्टोऽसि देवाऽऽशु देहि मे राजसम्पदम् । इत्युक्तवान् प्रहृष्टात्मा देवपालः मुदाङ्कितः ॥ १४८ ॥ समुद्रपरिखारम्यां क्षोणीमेकपुरीमिव । अचिराल्लप्स्यसे नूनमित्युक्त्वा स तिरोऽभवत् ॥ १४९ ॥ तदाप्रभृति भावेन देवपालो महामतिः । प्रमोदभाक् विशेषेण जिनमानर्च सर्वदा ॥ १५० ॥ अन्यदा बहिरुद्याने दमसारमहामुनेः । घातिकर्मक्षयाद् जज्ञे पञ्चमं ज्ञानमुत्तमम् ॥ १५१॥ ततः सुधाभुजो हृष्टा पुष्पवृष्टिमथ व्यधुः। सुवर्णकमलं चक्रुर्वै क्रियं च मनोहरम् ॥ १५२ ॥ धर्ममाख्यातुमारेभे तत्रासीनो महामुनिः । देवागमं विलोक्याऽथ समागाद् वन्दितुं नृपः॥ १५३ ॥ संसारः कदलीगर्भ इवाऽसारो विशां पते ।। निवास इव दुःखानां गृहावासः सदाङ्गिनाम् ॥१५४॥ दम्भोलिनेव यन्मुष्ट्या चूर्ण्यन्ते पर्वतोत्कराः। कम्पमानकरास्तेऽपि भवन्ति निधनागमे ॥१५५॥ मृत्योः काले समायाते शरणं नास्ति देहिनाम् । जिनोपज्ञं विना धर्म निर्वाणपदसाधकम् ॥१५६॥ इति श्रुत्वा महीपालो विधाय करकुड्मलम् । पप्रच्छ निजमायुष्कं भववासविरागवान् ॥१५७॥
१ शुभाशय इति च। २ नराणामित्यर्थः ।