________________
३०२
मल्लिनाथमहाकाव्येधन्योऽहं कृतपुण्योऽहं यस्य मे वृषभो जिनः। प्रत्यक्षोऽभूत् स्वयं देवाधिदेवः परमेश्वरः ॥ १३३ ॥ नदीतीरे कृतस्नानः प्रावृतश्वेतचीवरः। स स्नात्रं कृतवांस्तस्य पवित्रं स्खं तु निर्ममौ ॥ १३४ ।। सिन्दुवारैर्नवैर्गोप आनर्च त्रिजगद्गुरुम् । अथ तुष्टाव भावेन नम्रमौलिशुभाशयः ॥ १३५ ॥ नमः श्रीकृषभेशाय जगद्वन्याय तायिने । अनन्तज्ञानसौख्याय मुख्याय परमेष्ठिनाम् ॥ १३६ ॥ एवं स्तुत्वा जिनाधीशं प्रमोदोत्फुल्ललोचनः । मेने कृतार्थमात्मानं भक्तिव्यक्तिविकस्वरः ॥ १३७ ॥ यावज्जीवं जिनाधीशं पूजयित्वाऽमुमुत्तमम् । भोक्तव्यमिति सोऽकार्षीदिति निश्चयमञ्जसा ॥१३८॥ पुष्पैः कान्तारसंभूतैर्जिनं पूजयतः सतः। गोपालदेवपालस्य ययौ कालः कियानपि ॥ १३९ ॥
इतश्च
नृपसिंहरथस्याभूत् पुत्री नाम्ना मनोरमा । काञ्चनप्रेयसीकुक्षिसरोमण्डनवारला ॥ १४०॥ जाङ्गुली ग्रीष्मसर्पस्य वर्षाकालोऽन्यदाऽस्फुरत् । अब्धिकल्लोलवद् येन जाता मार्गाः सुदुर्गमाः ॥ १४१ ।। असौ गाढप्रतिज्ञत्वाद् भणितः श्रेष्ठिनाऽपि हि । नैवाऽकार्षीत् ततो जग्धं तदेकहृदयः सुधीः ॥ १४२ ॥ पयःपूर्ण नदीतीरं गन्तुं नेशः कथश्चन । उपवासान् वसन् गेहमकार्षीत् सप्त भक्तिभाक् ॥१४३॥
(युग्मम् ) मन्दीभूते नदीतीरे कथश्चिद् वासरेऽष्टमे । उत्तीर्य भुजदण्डाभ्यां निजं चैत्यमगादसौ ॥ १४४ ॥
१ तत्र, एवमपि। २ हंसीति हृदयम् ।