________________
अष्टमः सर्गः। श्रुत्वेति श्रेष्ठिनो वाक्यं देवपालः शुभाशयः । परमेष्ठिमहामन्त्रमपाठीत् सर्वकामदम् ।। १२० ॥ कतिपयेषु जातेषु वासरेषु समाययौ । वर्षाकालो महाभीष्मग्रीष्मद्रुमपरश्वधः ॥ १२१ ॥ धरा धाराधरं द्रष्ट्वाऽभीष्टमागतमुन्नतम् । कदम्बकुटजोद्भूतैः पुष्पैरघमिवाऽतनोत् ॥ १२२ ॥ मेघराजागमं दृष्ट्वा दूराद् वैतालिका इव । चकुर्जयजयारावं केकाव्याजेन केकिनः ॥ १२३ ॥ समायान्ति महोत्कण्ठाः पथिकाः स्वगृहानभि' । कः करोति जडैः सार्द्ध संगमं हि मनागपि ॥ १२४ ॥ पन्थानो गतसंचारा जाता दुईमकर्दमात् । जाड्योदये हि संवृत्ते सर्व दुःखाकरं नृणाम् ॥ १२५ ॥ उदकेनोदपूर्यन्त भूमिभागाः प्रतिक्षणम् । पुण्याधिकानां कमलासंचयेन गृहा इव ।। १२६ ॥ नदीतीरेषु रच्यन्ते वालुकाभिः कुमारकैः। देवागाराणि रम्याणि भूमीरोमाङ्कुरा इव ॥ १२७ ॥ अभियोगात्तकमला राजहंसा जिगीषवः। संचेरुराश्रयं स्वीयं स्वपक्षबलशालिनः ॥ १२८ ॥ गवां वृन्दमथादाय वर्षत्यथ घनाघने । चारणार्थ गिरेः कुजे गतवान् धेनुपालकः ॥१२९ ॥ करविन्यस्तदण्डोऽसौ कम्बलातविग्रहः । नदीरयक्षतक्षोण्यां जिनवक्तं ददर्श सः ॥ १३० ॥ तदर्शनघनेनाऽऽशु संजातानन्दकन्दलः । बिम्बमाकृष्टवानेष लब्धाद्भुतनिधानवत् ।। १३१ ॥ विधाय वेदिकां तत्र जिनबिम्बं न्यवीविशत् । मन्दिरं रचयाञ्चके तृणभित्तिविभूषितम् ॥ १३२ ॥
१ प्रतीत्यपि।