________________
मल्लिनाथमहाकाव्ये
अविनाशवशं याचे गोधोऽधादिति चेतसि ॥१०६॥ अथोवाच प्रभुर्भद्र ! यदीच्छसि सुखं किल । अविनश्वरमुद्दाम तत् प्रव्रज्य समाय ॥ १०७॥ ततो जगत्पते ! दीक्षां देहि नित्यसुखावहाम् । येन ध्यायामि नाथ ! त्वां सिद्धपुरुषसन्निभम्॥१०८॥ चित्रकुम्भनरः सोऽथ सबन्धुः सप्रियः प्रभोः । पार्श्वे दीक्षां स्म गृह्णाति किं न स्याल्लघुकर्मणाम्? १०९ इतश्च भारते वर्षे गङ्गासिन्धुविराजिते । हस्तिनागपुरं नाम पुरं सुरपुरोपमम् ॥ ११० ॥ तत्र सिंहरथो नाम भूपतिः सिंहविक्रमः। अभूत् काञ्चनमालेति तस्य प्राणप्रिया सती ॥१११॥ गुरुपादाम्बुजद्वन्द्वसेवाहेवाकषट्पदः । तत्रासीजिनदत्ताख्यो धार्मिको वणिगग्रणीः ॥ ११२ ॥ तस्य गेहे प्रतिज्ञातकर्मनिर्वाहकर्मठः । अभवद् देवपालाख्यो गोपालः क्षत्रवंशभूः ॥ ११३ ॥ दृष्ट्वा सद्धर्मनिष्ठं स श्रेष्ठिनं शुद्धमानसः । भद्रकत्वेन गोपालः चिन्तयामासिवानिति ।। ११४ ॥ धर्मेण द्रविणं राज्यं धर्मेण विजयश्रियः । धर्मेण कामिता अर्था धर्मेण सुखकीर्तयः ॥ ११५ ।। अतुलं मङ्गलं धर्मो धर्मः पापद्रुमाऽनलः । धर्मश्चतुर्गतिकोडनिपतज्जन्तुधारकः ॥ ११६ ॥ उत्तिष्ठन्तं शयानं च नमस्कारपरायणम् । दृष्ट्राऽथ श्रेष्ठिनं देवपालः पप्रच्छ भद्रकः ॥ ११७॥ श्रेष्ठिन्नहर्निशं मन्त्रकल्पं किमिदमुच्यते । असावाह महाभाग ! विद्यतेऽस्य महाफलम् ॥ ११८ ॥ अधनानां धनं रूपहीनानां रूपमुत्तमम् । रोगिणां रोगनिर्णाशं नमस्कारः करोत्यसौ ॥ ११९ ॥