________________
अष्टमः सर्गः।
२९९ अल्पैरपि दिनैः सोऽभूदामुष्यायण उच्चकैः ॥ ९४ ॥ अबन्धोरपि तस्याऽथ समजायन्त बान्धवाः । सोऽयं लक्ष्म्या महादेव्याः प्रभावः प्रेक्षति क्षितौ॥९५।। यत:अनाथानामियं नेत्री निःसखानामियं सखी । अगुरूणामियं गुर्वी रत्नाकरतनूद्भवा ॥ ९६ ॥ अन्यदा सुजनास्तेन मीलिताः शुभपर्वणि । भोजिता विविधैर्भोज्यैर्वस्त्रैश्च प्रतिलाभिताः ॥ ९७ ॥ ततस्ते सुजना हर्षाद् ननृतुर्लयबन्धुरम् । सोऽपि चित्रघटं मौलौ विधायाऽऽनन्दमन्दिरम् ॥९८॥ हस्वाभ्यां तेन तालायां प्रदत्तायां प्रमादतः । पपात मौलितः कुम्भो बभञ्जाऽप्याऽऽमपात्रवत्॥९९॥
(युग्मम् ) एतत् सर्व तिरोजज्ञे गन्धर्वनगरोपमम् । घटभङ्गादिवैतस्य भङ्ग पुण्यानि लेभिरे ॥ १० ॥ पूर्वोपार्जितदारियं पुण्यद॑रतो गतम् । पूर्वस्नेहादिवैतस्य डुढौके क्षणमात्रतः ॥ १०१ ॥ सबन्धुः शून्यचेतस्को भ्राम्यन् भूतार्तवद् भृशम् । पुरं चन्द्रपुरं पाप कुशाग्रमुखमण्डनम् ॥ १०२ ॥ गतस्तत्राऽशृणोदेष श्रीसर्वज्ञोऽत्र देवता । कोऽप्यस्ति यो ममोपायं घटस्य घटयिष्यति ॥१०३॥ ध्यात्वेति स्वामिनं नत्वा भद्रको भद्रकाशयः । उपाविक्षत् सभामन्तर्वीक्षमाणः प्रभुश्रियम् ॥१०४॥ चित्रकुम्भार्जनोपायं हृदये ध्यातवानसि । श्रुत्वेति तद्गिरः सत्यमसौ सर्वज्ञदेवता ॥ १०५ ॥ तस्मादेतस्य पार्थेऽहं चित्रकुम्भार्जनासुखम् ।
१ तिरोभूतमित्यपि।