________________
२९८
मल्लिनाथमहाकाव्येपरोपकारकारित्वं मण्डनानि महात्मनाम् ॥ ८१ ॥ अहो ! अयमपुण्यैकोऽहो ! दौर्गत्यदूषितः । अहो ! विनयवानेष ध्यायति स्मेति सिद्धराट् ॥८२॥ एतस्य मन्दभाग्यस्य यत् क्रियेतोपकारकम् । तत् तत्स्याद् बहुपुण्यार्थं व्याधितस्यौषधं यथा ॥८३॥ यत:संपदं प्राप्य कर्तव्या सर्वसत्त्वोपकारिता । काकोऽपि पूरयत्युच्चैर्जठरं परितो भ्रमन् ।। ८४ ॥ विमृश्येत्यब्रवीदेवं प्रहृष्टः सिद्धपूरुषः । ददामि भद्र ! ते विद्यां कामितश्रीमहोदधिम् ॥ ८५ ॥ विद्याभिमन्त्रितं किं वा चित्रं कुम्भमिमं शुभम् । एतद् विचिन्त्य सम्यक् त्वं वद वाञ्छितमात्मनः॥८६॥ ग्रामीणश्चिन्तयामास यदि विद्याक्षरं मम । एकं तु विस्मृतं दैवात् तदा का नाम मे गतिः ॥८७॥ अयं चित्रघटो मेऽस्तु सर्वाभिष्टार्थसार्थदः । विमृश्येत्यवदद् गोधो देवार्पय घटं मम ॥ ८८ ॥ विद्यासिद्धेन स घटः प्रदत्तः कल्पवृक्षवत् । यत्पभावेन सर्वेऽर्थाः सम्पद्यन्ते समीहिताः ॥ ८९ ॥ असौ चित्रघटं प्राप्य शासनाप्तनिधानवत् । एवं विचिन्तयामास खग्रामाभिमुखं व्रजन् ॥९० ॥ किं तया क्रियते लक्ष्म्या या स्यादन्यत्र भूयसी । यां सुहृदो न वीक्ष्यन्ते प्रमोदोत्फुल्लचक्षुषः ॥ ९१ ॥ अथासौ ग्राममापन्नो दधानो मस्तके घटम् । चित्रकुम्भ इति नरैराहूतः संज्ञया मुदा ॥ ९२ ॥ तेषां विलोकमानानां घटमाहात्म्यतो न्वहम् । सौधं विरचयामास क्षणात् काव्यं कवीन्द्रवत् ॥१३॥ कुम्भभूरिप्रभावेण नेपथ्यादि विनिर्ममौ ।