________________
अष्टमः सर्गः।
२९७
तस्य प्रभावतो भावान् प्रसादः समजायत । तत्र दिव्याङ्गनाकाराश्चिक्रीडुश्चपलेक्षणाः ॥ ६९ ॥ जलैरुष्णैः कवोष्णैश्च ताभिः स्नानमकारयत् ।। स्फूर्जज्जयजयोद्दामप्रथमोत्पन्नदेववत् ॥ ७० ॥ असावङ्गे नरः सिद्धश्चलत्कल्पद्रुमोपमः । आपादमस्तकं शस्ताऽऽभरणश्रेणिकां व्यधात् ॥७१॥ ततो रसवतीं दिव्यां बुभुजे सिद्धपुरुषः। विद्याःप्रसाधिताः किं किं न कुर्वन्ति समीहितम्॥७२॥ त्रियामां सुखसम्भारैरेकयाममिवोज्ज्वलैः। अतिवाह्य प्रभातेऽसावुपजहेऽखिलं च तत् ॥ ७३ ॥ चित्रकुम्भं निवेश्याऽऽशु सुरमन्दिरकोणके । पुनः प्रभाते देवौकोमध्येऽस्थात् सिद्धमन्त्रभृत् ॥७४॥ एतत् सर्व विलोक्याऽथ स नरो ग्रामसम्भवः । .. अमुं गुरुमिवात्यन्तं सिषेवे भक्तिवत्सलः ॥ ७५ ॥ पादसंवाहनायैस्तु ग्रामीणः सिद्धपुरुषम् । आराध्य प्रत्यहं सोऽथ तुतोष विनयादलम् ॥ ७६ ॥ यतःविनयः सम्पदां धाम विनयः कीर्तिकार्मणम् । विनयो धर्मवार्थीन्दुर्विनयो मूलमुन्नतेः॥ ७७ ॥ हंहो ! तवाऽहं तुष्टोऽस्मि याचखेप्सितमात्मनः । अथ ग्राम्योऽवदत् सिद्धं कोशीकृतकरद्वयः ॥ ७८ ॥ सर्वथा हन्त ! निष्पुण्यो मृतखजनबान्धवः । मन्दप्रतिम एकाकी नभोमार्गादिव च्युतः ॥ ७९ ॥ युष्माकं शरणं प्राप्तो यद् युक्तं तत् समाचरेः। ससत्त्वा हि महासत्त्वाः परोपकृतिकर्मणि ॥ ८० ॥ यतःदयालुत्वमनौद्धत्यं दाक्षिण्यं प्रियभाषिता ।
३८