________________
२९६
मल्लिनाथमहाकाव्येगर्भस्थजीवदुष्कर्मभारादिव कठो मृतः । संजातनन्दना मूतिव्यथार्ता साऽपि दैवतः ॥५६॥ ततः संवर्द्धितो मातृष्वना स्नेहेन बालकः। वृत्त्यर्थी ग्राम्यलोकानां वत्सरूपाण्यचारयत् ॥५७॥ यमदूतैरिवोदौर्वत्सरूपाणि गोचरे। चरन्ति वृकसङ्घातग्रस्यन्तेऽस्य पुरःस्थितैः ॥५८॥ तत्तत्स्वामिजनैबाढं ताड्यमानः पदे पदे । स सीरं वाहयामास परक्षेत्रेषु वृत्तये ॥५९।। क्षेत्रेषु येषां येषां स हलं वाहयति स्फुटम् । तेषां तेषां च धान्यस्य न स्यादेकः कणोऽपि हि॥६०॥ रे ! रे ! कपोतपोताभ ! त्यज क्षेत्राणि नः क्षणात् । तय॑मान इति ग्राम्यैः स स्वग्रामाद् विनिर्ययौ ॥६१॥ स बभ्राम महीपीठं भूतात इव शून्यधीः। उत्खातो रोहणस्तेन नाप्तं किश्चिद् रजो विना ॥६२॥ यतःयत्र वा तत्र वा यातु पाताले वा प्रगच्छतु । तथाऽपि पूर्वजीर्णानि कर्माणि पुर इयूति ॥ ॥६३ ॥ ततो निवृत्तो दीनास्यः सर्वथा पुण्यवर्जितः । सर्वोपायपरिभ्रष्टो मुष्टो दुष्कर्मधर्मणा ॥ ६४ ॥ नैतस्य भोजनं दातुमुदयास्तमयान्तरे । प्रभुरस्मीति ध्यात्वेति ययावस्तं दिवाकरः ॥६५॥ इतश्च तेन संध्यायां सुरसद्म मनोहरम् । अरण्यानीमहाम्भोधेरन्तरीपमिवैक्षत् ॥६६॥ मध्यस्थितः पुमान् कोऽपि भद्राकारः सुलक्षणः । वर्णवर्णवपुस्तेन ददृशे दिवसात्यये ॥ ६७॥ ततश्चित्रघटं पुष्पैरर्चयन् जिनबिम्बवत् । घण्टानुरणनाकारं हुङ्कारं विदधेऽप्यसौ ॥ ६८ ॥.