________________
१२
मल्लिनाथमहाकाव्येअस्मद्वयस्या देवश्रीविद्यते तापसाश्रमे। .. प्रपन्नमेतया सार्द्धमेवं शपथपूर्वकम् ॥ ३६ ॥ आवाभ्यां रूपलावण्यपुण्यश्रीभ्यां ससौहृदम् । एकः कार्यः पतिः प्रीतिरतिभ्यामिव मन्मथः ॥३७॥ तदाश्रममनुप्रीतस्त्वरस्व गुणवारिधे !। एकद्रम्मेण ते भावि पाणितद्वयमुत्तमम् ।। ३८ ।। योगिशिष्यस्तथेत्युक्त्वा समामात्तापसाश्रमम् साऽस्मन्नेत्रपथं प्राप्ता सिंहाकृष्टा मृगी यथा ॥ ३९ ॥ भद्रास्य ! सा मे जामेयी जीवन्ती कुलभाग्यतः । मुदेऽजनिष्ट वल्लीव घना घनघनोदयात् ॥ ४० ॥ योगिशिष्यस्ततोऽस्माभिः प्रहतो मुष्टियष्टिभिः । प्रणनाश महारण्ये घूकवद्भानुधामभिः ॥ ४१॥ इयं कथा मयाऽज्ञायि कथिता पद्मनेत्रया। इष्टसङ्गे भवेत्माय उदन्तः सुखदुःखयोः ॥ ४२ ॥ अथानयोरर्पयित्वा भागिनेयीं तपस्विनोः । सा शङ्खभूपतेः पार्थे प्रेषिता प्रीतिनिर्भरम् ।। ४३ ॥ ताविमौ तापसौ शान्ततामसौ कोपनिग्रहात् । . इहायातौ गुणाम्भोधे ! प्रष्टव्यस्त्वं कुतः पुनः ॥४४॥ अहं वैदेशिकः स्वामिन् ! प्रदेशमिममागमम् । गन्ता चम्पापुरी पृथ्वीसमालोकनकौतुकी ।। ४५ ॥ स्वामिन् ! प्रसादमाधाय दर्शयादर्शशुद्धधीः । चम्पायाः पदवीं साधुः प्रार्थनाविएखो नहि ।। ४६ ॥ अथर्षिर्दयामास चम्पामार्ग तपावनात् । तस्यां पुरि समायातो वसुभूतिन्पात्मजः । १७ ॥ विलोक्य नगरी सर्वां कन्यान्तःपुरसन्निधौ। . निविष्टः कामदेवस्य प्रासादे तुङ्गजालके ॥ ४८॥ ,