________________
प्रथमः सर्गः
निशम्य शङ्खनामादि बभाषे रत्नचन्द्रमाः । कोऽयं शङ्खमहीपालः का वेयं पद्मलोचना ? ॥२३॥ प्रत्यवादीत्कुलपतिश्चम्पायां पुरि शङ्खराट् । तस्याभूनन्दिनी नेत्रानन्दिनी पद्मलोचना ॥ २४ ॥ इतश्च केनचिद्वालाऽपहृता जालकान्तरात् । न भवेदन्यथाभावः पूर्वोपार्जितकर्मणाम् ॥ २५ ॥ एतस्यां हन्यमानायां रत्नचन्द्रः कुतश्चन । समागात्तत्र युद्धेन योगिनं तं जघान च ॥ २६ ॥ नृपपुत्र्या तया सार्द्धं चलितो वसुभूतिजः । निशि वंशदरीकोणे तां कृत्वा द्वारि सोऽस्वपत् ॥ २७ ॥ इतश्च योगिशिष्येण पदिकेनेव गहरे । समागत्यापजहे सा द्वारं निर्माय पश्चिमम् ॥ २८ ॥ कण्ठपीठे स्वसिचयाञ्चलेन सुरभीमिव । गह्वराच्चालयामास विनिद्रां पद्मलोचनाम् || २९ ॥ कियन्मार्गमतिक्रान्ते बभाषे योगिसेवकः । अरे रे ! तव किं कुर्वे मद्गुरोः प्राणघातिके ! ॥ ३० ॥ अथोचे भूपतिसुता दधती हृदि धीरताम् । निर्मिमीष्व वेगेन यत्ते सङ्गतिमङ्गति ।। ३१ ॥ प्रत्यवादीदसौ बाले ! जीवितं न हरामि ते । सिद्धमन्त्रौषधीविधं यदि मां परिणेष्यसि ॥ ३२ ॥ इदं निशम्य सा दध्यौ मानसे पद्मलोचना । भवितव्यं कथङ्कारं प्राप्यो राजसुतो मया ॥ ३३ ॥ धीमान शुभकालस्य हरणं विदधीत यत् । न विधेया कचिच्चिन्ता कालः कालो भविष्यति ॥ ३४ ॥ विमृश्यैवं सुता राशस्तं प्रत्याह स्मितोत्तरम् । युक्तमुक्तं त्वया सर्व परं मम वचः श्रृणु ॥ ३५ ॥
११