________________
अष्टमः सर्गः ।
पिता तु नरकादेत्य किं न यच्छति दर्शनम् १ || १७॥ प्रेत्यामुत्रस्थितिः तस्मात् जगन्नाथ ! न विद्यते । प्रत्यये व्यत्यये दृष्टे किमु मुति कोविदः १ ॥१८॥ प्रभुरूचे महीपाल ! यत् ते माता समेति नो । दिवो मनुष्यलोकेऽस्मिंस्तदाऽऽकर्णय कारणम् ॥ १९ ॥ देवा हि विषयासक्ता नानाक्रीडाविधायिनः । असमाप्तविधेयार्थी मनुष्येषु विनिस्पृहाः ||२०|| मनुष्यलोकदुर्गन्धैरिहाऽऽगच्छन्ति नैव ते । विना कल्याणकादीनि पूर्व स्नेहं च भूपते ! ॥ २१ ॥ परमाधार्मिकैः कामं बाध्यमाना निरन्तरम् । नारकास्तु पराधीना आगच्छेयुः कथं किल ? ॥२२॥ भूयोऽपि भूपतिः प्रोचे भगवन् ! एकदा मया । एकचौरो महाकुम्भ्यां प्रक्षिप्तः खलु यत् ततः ॥ २३॥ पिधायोच्चैर्गुरुद्वारे निश्छिद्रे जतुसारिते । मृतचौरो मयाऽलोकि तत् जीवस्य न निर्गमः ||२४|| कुम्भीमध्येsपि यत्नेन वीक्ष्यमाणैः मुहुर्मुहुः । जीवः कुत्रापि नो दृष्टो दृष्टास्तु कृमिराशयः ॥ २५॥ तद्वदन्यो मया दस्युः सूक्ष्मखण्डानि कारितः । न तत्र वीक्षितः प्राणी तस्मान्नास्तीति चिन्त्यताम्॥ २६ ॥ अथार्हन् न्यगदद् वीरं कुम्भीमध्ये स्थितो नरः । निश्छिद्रे पिहितद्वारे शङ्खमादाय वादयेत् || २७॥ स शङ्खनिखनो भद्र ! यथा वाह्ये प्रसर्पति । तथाऽप्यसुमान् गच्छन् दृश्यते न विलोकनात् ॥ २८ ॥ धमायमाने लोहपिण्डे पुरुषेण निरन्तरम् । सर्वात्मना कुतस्तत्र प्रविवेश हुताशनः ।। २९ ॥ तथायं प्रविशन्नात्मा निर्गच्छन् न च वीक्ष्यते । दृष्टमिगणो राजन् ! दृष्टान्तोऽयं मयोदितः ॥ ३० ॥
२९३