________________
२९२ मल्लिनाथमहाकाव्ये
अनुकूलेऽनिले वाति जन्तुजातसुखावहम् ॥ ४॥ विहरंस्त्रिजगन्नाथः सनाथोऽतिशयश्रिया । पुरं चन्द्रपुरं प्राप कुशावर्त्तविभूषणम् ॥ ५ ॥
(पञ्चभिः कुलकम् ) तत्राऽभून्नास्तिको राजाऽभिधानादास्तिकः पुनः । अध्यक्षपमितिवादी पश्चभूतस्थितौ रतः ॥६॥ सर्वज्ञः प्राप इत्युच्चैः श्रुत्वा कोपनमानसः । विवादायाऽऽस्तिको राजा गतवान् स्वामिसंनिधौ ॥७॥ उवाच जगतां स्वामी गिरा तत्त्वकिरा स्वयम् । जीवाजीवादितत्त्वानि सदृष्टान्तानि सप्तधा ॥ ८॥ अथ दध्याविति क्षोणीपालो हृदि विमोहवान् । असदेतदिहाध्यक्षप्रमाणाविषयत्वतः ॥९॥ प्रभुरूचे महीपाल ! नास्तिता याऽस्ति ते हृदि । तवैवाऽपेक्षया सेयमथवा सर्वदेहिनाम् ।। १० ॥ प्रत्यक्षं चेत् तवाभीष्टं तदा वंश्यादिपुरुषान् । त्वमनुमन्यसे नो चेद् तदा सर्व विसंस्थुलम् ॥११॥ कचिदध्यक्षगम्योऽयं कचिद् परोक्षगोचरः। कचिच्चानुमतेर्गम्यस्तस्माद् जीवोऽस्ति सर्वथा ॥१२॥ तत्सिद्धौ च तवैवेह सर्वज्ञत्वं प्रसिद्ध्यति । सर्वज्ञत्वे च संसिद्धे जीवत्वं सर्वमेव हि ॥१३॥ . . जीवत्वेऽपि च संसिद्धे पुण्यपापादयोऽखिलाः। उद्धृते हि तरौ किं न भवेयुः पल्लवोदयाः ? ॥१४॥ अथाह भूपतिः खामिन् ! परलोकोऽस्ति चेद् कचित् । आसीद् धर्मरता मेऽम्बा सर्वदा सदयाङ्गिनाम् ॥१५॥ अथ युष्मन्मतेनाऽसौ भविष्यति दिवं गता। तातश्च कृतपापेन निश्चितं नरकं गतः ॥१६॥ मन्माता किं न मामेत्य प्रबोधयति सत्वरम् ।