________________
अष्टमः सर्गः।
२९१ चामैस्तु शक्तिमुद्गरवीजपूराक्षिमूत्रिभिः । चञ्चच्चतुर्मुखाम्भोजः श्रीमल्लिक्रमसेवकः ॥११५६॥
(त्रिभिर्विशेषकम् ) वैरोटया नाम तत्तीर्थे समभूत् शासनेश्वरी । कृष्णाङ्गी कमलासीना सोमा सोमाननाम्बुजा॥११५७॥
पुरः पुरस्थैर्विनयाभिननै
बन्दारुभिर्देवगणैरुपेतः। हेमाम्बुजन्यस्तपदारविन्दः
श्रीमल्लिनाथो विजहार तस्मात् ॥११५८।। इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमल्लिखामिचरिते महाकाव्ये विनयाङ्के सम्यक्त्वपूर्वकप्राणातिपातादिव्रतेषु सुदत्त-सुबन्धु-सङ्गमक-सुदर्शनं-भोगदत्त-मित्रानन्दभीम-भीमसेन-लाभनन्दि-ताराचन्द्र-चन्द्रावतंसक-धनसेन शिखरसेन-चन्दनबाला फलव्यावर्णनो नाम सप्तमः सर्गः ।
--- ---
अहम्
अष्टमः सर्गः। अथ श्रीभगवान् मल्लिर्निदधानः क्रमद्वयीम् । दिव्यस्वर्णसरोजेषु न्यस्यमानेषु नाकिभिः ॥१॥ प्रभापूरितदिक्चक्रे धर्मचक्रे प्रसर्पति । पुरः स्थिते विराजिष्णौ रविसब्रह्मचारिणि ॥ २ ॥ ऋतुषु भ्राजमानेषु स्मेरैः पुष्पैनिजैनिजैः। .. कण्टकेषु च जातेषु नम्रेषु न्यग्मुखेषु च ॥ ३ ॥ प्रदक्षिणं च गच्छत्सु ततपक्षेषु पक्षिषु । .