________________
२९०
मल्लिनाथमहाकाव्येप्राग्वत् पूर्वासने स्थित्वा श्रीमल्लिर्देशनां व्यधात् । . अनुशास्तिमयीं तेऽपि श्रुत्वा तां बहु मेनिरे ॥११४३॥ पौरुष्यन्ते प्रभोता श्रीमल्लः क्षितिपालकः। तण्डुलानां चतुष्पस्थी चतुःस्थालस्थितामथ!!११४४॥ वज्रभृन्निहितैर्गन्धैर्द्विगुणीकृतसौरभैः । सौधादाऽऽनाययामास तूर्यगीतपुरस्सरम् ॥११४५॥
(युग्मम् ) ढौकित्वा स्वामिनोऽग्रेऽसौ दिव्यपूजापुरस्सरं । ऊर्ध्वमुत्क्षिप्य तत्क्षिप्रं तदर्द्ध जगृहुः सुराः ॥११४६॥ भूगताध नृपेणात्तं परमानन्ददायिना। शेषमई विभज्याऽन्यैर्गोत्रिवद् जगृहे जनैः ॥११४७॥ पूर्वोत्पन्ना रुजः सर्वा नवीना न भवन्ति यत् । षण्मासी यावदेतस्य स्थलेर्माहात्म्यतोऽङ्गिनाम्॥११४८ अथोत्तस्थौ जगन्नाथः श्रीमान् मल्लिर्निजासनात् । अन्तरद्वारमार्गेण निर्ययौ त्रिदशान्वितः ॥११४९॥ द्वितीयवप्रमध्यस्थेशानकाष्ठाविभागगे । देवच्छन्दे प्रभुमल्लिर्गतो विश्रामहेतवे ॥११५०॥ धियां निधिभिषक् श्रीमान् सूरिगणभृद् गुणी । स्वामिनः पादपीठस्थो विदधे धर्मदेशनाम् ॥११५१॥ खेदच्छेदो जिनेन्द्रस्य शिष्योघे गुणदीपनम् । सभायां प्रत्ययो द्वाभ्यां गणभृत्कथनं गुणाः॥११५२॥ गणभृद्देशनाप्रान्ते प्रणम्य त्रिदशेश्वराः। स्थानं निजं निजं जग्मुः स्मरन्तः स्वामिदेशनाम् ११५३ तीर्थे तस्मिन्नभूद् यक्षः कुबेरो नाम भक्तिमान् । इन्द्रायुधद्युतियॊर्भिरष्टाभिश्च मनोहरः॥११५४॥ वरदेनाऽपि शूलेनाऽभयदेनाऽपि पशुना। चतुर्भिर्दक्षिणैरित्थं भुजैर्भूषितविग्रहः ॥ ११५५ ॥