SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८९ सप्तमः सर्गः। महता विस्तरेणाऽथ स्फीतसंगीतमङ्गलः। देवैर्योमस्थितैर्वीक्षमाणः कौतुकितेक्षणैः ॥११३०॥ प्रविजिषुभिश्चान्यैर्यथावृद्धपुरस्सरैः। ... प्रभावत्या समं देव्या पराभिश्च महीपतिः ॥११३१॥ महान्तमुत्सवं कृत्वा प्रदक्षिणिततीर्थकृत् । उवाच स्वामिनं भक्त्या मां तारय भवाम्बुधेः११३२॥ प्रभोः षडपि मित्राणि परिच्छदयुतान्यथ । बभाषिरे जगन्नाथं नाथ ! तारय संमृतेः ॥११३३।। अथ श्रीकुम्भभूपालप्रमुखान् नरपुङ्गवान् । प्रभावतीप्रभृतिकाः पौरनारीरनेकशः ॥११३४॥ सामायिकवतोच्चारपूर्व मल्लिजिनेश्वरः । . स्वयं प्रव्राजयामास वासनिक्षेपपूर्वकम् ॥११३५।। षडपि स्वामिमित्राणि प्रभोः वक्ताद् प्रवत्रजुः । क्रमाद् केवलमासाद्य नाथप्राक् शिवगामिनः॥११३६॥ आद्यशिष्यो जिनेन्द्रस्य भिषगाख्यो गणाग्रणीः। सप्ताविंशतिरन्येऽपि बभूवुर्भुवनोत्तमाः ॥ ११३७ ॥ उत्पादविगमध्रौव्यत्रिपद्यास्तेऽनुसारतः । द्वादशाङ्गानि पूर्णानि रचयामासुरञ्जसा ॥ ११३८ । दिव्यचूर्णभृते स्थाले विधृते वज्रिणा स्वयम् । स्वामिनोत्थाय तन्मौलौ वासाः क्षिप्ता यथाक्रमम् ११३९ गर्जत्सु सुरतूर्येषु प्रनृत्यत्स्वमरेषु च । गीयमानेषु देवीभिर्धवलेषज्ज्वलेषु च ॥११४०॥ सूत्रेणार्थेन सर्वेण तथा तदुभयेन च । : द्रव्यैर्गुणैश्च पर्यायैर्नयैरपि च सप्तभिः ॥ ११४१ ॥ अनुज्ञामनुयोगस्य गणानुज्ञां च सर्वतः । श्रीमल्लिदत्तवांस्तेषां प्रत्येकं विधिपूर्वकम् ॥११४२॥ - (त्रिभिर्विशेषकम् )
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy