________________
२८८
मल्लिनाथमहाकाव्ये
शतानीकसमीपस्थश्चम्पावस्कन्द आगतः॥ १११६ ।। तस्मिन्नेत्य वसुमती दृष्ट्वा तत्पादयोः स्थितः। अरोदीद् मुक्तकण्ठत्वाद् रोदयनितरानपि ॥ १११७ ॥ किमु रोदिषि राज्ञोक्तः कञ्चुकीति जगाद तम् ? । दधिवाहनभूरेषा धारिणीकुक्षिसम्भवा ॥१११८॥ निजराज्यपरिभ्रष्टां चेटीवत् परवेश्मगाम् । मुक्तकण्ठं रोदिमि स्म वीक्ष्येमां स्वामिनन्दिनीम् ॥१११९॥ राजा प्राह न शोच्येयं ययाऽर्हन् प्रतिलाभितः । आ संसृतेरियं धन्या वीरं याऽपारयत् प्रभुम् ॥११२०॥ मृगावत्युवाचेयं भगिनी मम धारिणी। नाथेयं मम यामयी नयनानन्ददायिनी ॥११२१॥ पञ्चभिर्दिवसैन्यूँनषण्मासान् तपसो विधेः । विधाय पारणां वीरो धनगेहाद् विनिर्गतः ॥११२२॥
आदित्सुर्लोभतो रत्नदृष्टिं भूमीपतिस्ततः । निषिद्धो हरिणाऽगृह्णाचन्दनाऽऽदेशतो धनी ॥११२३॥ उत्पन्नकेवलज्ञानाच्चन्दना ज्ञातिनन्दनात् । व्रतमादायनिर्वाणपदमेष्यति शाश्वतम् ॥११२४॥ सुपात्रदानमाहात्म्यात् तत्क्षणात् संपदः सताम् । घनाम्भःसिक्तवल्लीनां यथान्यायं वनश्रियः ॥११२५॥ इत्थं श्रावकधर्मस्य व्रतानि परिपालयन् । क्रमादुपासको मोक्षसौख्यभाग् द्वित्रिजन्मतः ॥११२६॥ ततः श्रीकुम्भभूपालः प्रोवाच रुचिरं वचः। श्राद्धधर्माद् विरक्तोऽस्मि क्रमशो मोक्षदायकात् ॥११२७॥ अथोत्थाय पुरीप्राप्तः श्रीकुम्भः पृथिवीपतिः । आहूय नन्दनं मल्लं नाम राज्ये न्यवीविशत् ॥११२८॥ षडपि स्वामिमित्राणि न्यस्य राज्ये तनूद्भवान् । अचलन् शिबिकासीना विमानस्था इवर्भवः ॥११२९॥ १ ऋभवो देवा इत्यर्थः ।