________________
सप्तमः सर्गः।
२८७ तत्रैवास्थाद् दृढभक्तिर्जिननाथमुवाच च ॥ ११०३॥ कल्पन्ते यदि कुल्माषा भगवन् ! भवतारक!। गृह्यतां सूर्पकोणेन ममानुग्रहकाम्यया ॥११०४ ॥ द्रव्यक्षेत्रादिसम्पूर्ण विज्ञायाऽभिग्रहं जिनः। करं कुल्माषभिक्षायै ततः प्रासारयद् वरम् ॥ ११०५॥ धन्याऽस्मि कृतपुण्याऽस्मि श्लाघ्याऽस्मि क्षमिणामपि । सुलब्धपात्रदानाऽस्मि मनस्येवं विचिन्वती ॥ ११६० ॥ वीक्षमाणा जगदिदं स्वाभाविकमुदान्वितम् । विस्मरन्ती क्षुधाग्लानिं जिनरूपविलोकनात् ॥ ११०७ ॥ उल्लसत्मोतरोमाश्चा कुल्माषांस्तीर्थकृत्करे । अक्षिपत्सूर्पकोणेन कतिचिद् भक्तिवत्सला ॥ ११०८॥
(त्रिभिर्विशेषकम् ) अहो ! दानमहो ! दानं श्लाघमाना मुहुर्मुहुः। तत्र प्रीत्याऽऽययुर्देवा दीप्यमानास्तनुश्रुता ॥ ११०९ ॥ पश्चदिव्याभिषेकश्च विदधुर्जयबन्धुरम् । तुत्रुटुर्निगडान्यस्या जीर्णरज्जुवदञ्जसा ॥१११० ॥ पादयो पूरे तस्या जज्ञाते हेमनिर्मिते । तत्कालं केशपाशश्च पूर्वप्रेम्ण इवागतः ॥ ११११ ॥ सर्वाङ्गमपि नेपथ्यधारिणी धारिणीसुता। वीरभक्तैः सुरैश्चक्रे देवीव क्षितिचारिणी ॥ १११२ ॥ दिव्यां भेरी नभोमार्गे ताडयन्तो मुहुर्मुहुः। जयनादं वितन्वन्तो ननृतु कवासिनः ॥ १११३॥ तं श्रुत्वा दुन्दुभिध्वानं शतानीको मृगावती । सुगुप्तो नन्दया सार्द्ध तत्रेयुर्जिनपारणे ॥ १११४ ॥ सम्पूर्णाभिग्रहं वीरं विज्ञायाऽवधिना हरिः । उत्फुल्लचेता आगच्छत् द्योतयंस्तेजसा नभः ॥ १११५ ॥ दधिवाहनभूपालकञ्चुकी सम्पुलाभिधः।