________________
२८६
मल्लिनाथमहाकाव्येमरौ गतां राजहंसीमिवेमां वीक्ष्य दुःखितः। पुत्रिके ! भव विश्वस्ता जल्पन रसवतीं ययौ ॥ १०९०॥ दैवाद् भोज्यं विशिष्टं नो वीक्षमाणो धनावहः । एतस्याः सूर्पकोणस्थान् कुल्माषान् स समापयत् ॥१०९१॥ अमून् भुझ्व सुते ! तावद् यावत् कारमानये । भवन्निगडविच्छेदे गदित्वेत्यऽगमद् धनी ॥ १०९२॥ ऊर्ध्वस्था चन्दना चित्ते चिन्तयन्तीत्य खिद्यत । मम राजकुले जन्म केदं चेटीत्वचेष्टितम् ? ॥ १०९३ ॥ चेदागां श्रेष्ठिनो गेहे कुतोऽवस्थेशी मम ? । काकमांसं तदुच्छिष्टं स्वल्पं तदपि याचितम् ॥ १०९४ ॥ षष्ठपारणकालेऽमी कुल्माषा मम भुक्तये ।। यद्याऽऽयात्यतिथिः कोऽपि चारित्री समतानिधिः॥१०९५॥ अदत्तं भुज्यते यच्च तत्पशूनां समञ्जसम् । अतिथेः संविभागेन भोजनं भाजनं श्रियाम् ॥ १०९६ ॥ विचिन्त्यैवं सुता राज्ञो द्वाराभिमुखमैक्षत । इक्षितैरतिथिं प्रेम्णाऽऽकारयन्तीव दूरतः ॥ १०९७ ॥ इतश्च श्रीमहावीरो भिक्षायै पर्यटन पुरि । पुण्यराशिरिवैतस्या मूर्तिमान् समुपागमत् ॥ १०९८ ॥ अहो ! अहो ! तपःपात्रं निश्रेयसश्रियां मुनिः । कोऽपि कोऽपि महासत्त्वः स्वशरीरेऽपि निर्ममः ॥१०९९॥ ईदृक्षाय तपःस्थाय पुरां जन्मनि नो मया । प्रदत्तं किंचन कापि तदवस्थाऽजनीदृशी ॥ ११००॥ . अथवा मे महत्पुण्यं यदसावागतो मुनिः ।। उच्छसतीव मे चित्तममुष्मात् खेदभागपि ॥ ११०१ ॥ ध्यात्वेति चन्दनाऽचालीत् कुल्माषान्वितमूर्पिका । एकं पादं ददावन्तस्तदेहल्याः परं बहिः ॥११०२ ॥ देहली निगडैर्गाढमाक्रमितुमनीश्वरी ।