________________
सप्तमः सर्गः।
२८५ एवं नियन्त्र्य लोकं खं मूला मूलगृहं ययौ । सायं श्रेष्ठी समायातोऽपृच्छत् काऽस्ति सुता मम ॥१०७७।। कश्चन श्रेष्ठिनीभीतेः पृच्छतोऽप्यस्य नाऽवदत् । सर्वोऽपि गृहिणीहस्तगोचरो गृहमागतः ॥ १०७८ ॥ मत्सुता रमते काऽपि स्वच्छवान्ता परौकसि । ध्यात्वेत्यगमयत्कालं मृदुधीः स्नेहलाशयः ॥ १०७९ ॥ अपश्यंश्चन्दनां काऽपि द्वितीयेऽयऽप्यऽभाषत । मूकीभूत इव जनो नाऽऽख्यत् किंचन सर्वथा ॥ १०८० ॥ ततः शोकाकुलः श्रेष्ठी प्रोवाच स परिच्छदम् । जानन्तश्चेन्नाऽऽख्यास्यथ ताडयिष्यामि वस्तदा ॥१०८१॥ श्रुत्वेत्यऽचिन्तयत् काचित् स्थविरा किंकरी हृदि । जीवेद् मे जीवितव्येन चन्दनाऽऽनन्ददा दृशाम् ॥१०८२॥ ममाऽस्त्यऽदूरतो मृत्युर्जरया जर्जरं वपुः। अदूरवीक्षिणी दृष्टिविस्मृतिश्च गरीयसी ॥ १०८३ ॥ इयं सुयौवना वत्सा महाकष्टेन पूरिता।। विपत्स्यते, कियद् वल्लीच्छिन्नं पुष्पं हि नन्दति ॥१०८४॥ गदिते चन्दनावृत्ते किमेषा मे विधास्यति ? । उदस्ते शकटे हन्त ! किं विधाता गणाधिपः ? ॥१०८५॥ ध्यात्वेत्यऽदर्शयत् तस्य चन्दनारोधमन्दिरम् । मूलाया वीक्षमाणायाः कोपारुणदृशो भृशम् ॥१०८६॥ स्वयमुद्घाटयामास द्वारं श्रेष्ठी धनावहः । तत्रैक्षत सुतां तृष्णाक्षुधा म्लानविग्रहाम् ॥ १०८७ ॥ पादयोर्निगडै ढं यन्त्रितां हस्तिनीमिव । भिक्षुकीमिव मुण्डां च चामुण्डावत्कृशोदरीम् ॥ १०८८ ॥ वहलैर्बहलैः क्षोणी सिचन्तीं लोचनाश्रुभिः। रुष्यन्ती कर्मणे स्वस्य विमृशन्तीं निजस्थितिम् ॥१०८९॥
(त्रिभिर्विशेषकम् )